Skip to main content
पडताळणी प्रलंबित

श्री चण्डिका स्तोत्रम्

या देवी खड्गहस्ता सकलजनपदव्यापिनी विश्वदुर्गा

श्यामाङ्गी शुक्लपाशा द्विजगणगणिता ब्रह्मदेहार्धवासा ।

ज्ञानानां साधयित्री यतिगिरिगमनज्ञान दिव्य प्रबोधा

सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ १ ॥

ह्रां ह्रीं ह्रूं चर्ममुण्डे शवगमनहते भीषणे भीमवक्त्रे

क्रां क्रीं क्रूं क्रोधमूर्तिर्विकृतकुचमुखे रौद्रदंष्ट्राकराले ।

कं कं कं कालधारि भ्रमसि जगदिदं भक्षयन्ती ग्रसन्ती

हुङ्कारं चोच्चरन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ २ ॥

ह्रां ह्रीं ह्रूं रुद्ररूपे त्रिभुवननमिते पाशहस्ते त्रिनेत्रे

रां रीं रूं रङ्गरङ्गे किलिकिलितरवे शूलहस्ते प्रचण्डे ।

लां लीं लूं लम्बजिह्वे हसति कहकहाशुद्ध घोराट्‍टहासे

कङ्काली कालरात्रिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ३ ॥

घ्रां घ्रीं घ्रूं घोररूपे घघघघघटितैर्घुर्घुरारावघोरे

निर्मांसी शुष्कजङ्घे पिबतु नरवसा धूम्रधूम्रायमाने ।

द्रां द्रीं द्रूं द्रावयन्ती सकलभुवि तथा यक्षगन्धर्वनागान्

क्षां क्षीं क्षूं क्षोभयन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ४ ॥

भ्रां भ्रीं भ्रूं चण्डवर्गे हरिहरनमिते रुद्रमूर्तिश्च कीर्ति-

-श्चन्द्रादित्यौ च कर्णौ जडमुकुटशिरोवेष्टिता केतुमाला ।

स्रक् सर्वौ चोरगेन्द्रौ शशिकिरणनिभा तारकाहारकण्ठा

सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ५ ॥

खं खं खं खड्गहस्ते वरकनकनिभे सूर्यकान्ते स्वतेजो-

-विद्युज्ज्वालावलीनां नवनिशितमहाकृत्तिका दक्षिणेन ।

वामे हस्ते कपालं वरविमलसुरापूरितं धारयन्ती

सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ६ ॥

ओं हुं हुं फट् कालरात्री रु रु सुरमथनी धूम्रमारी कुमारी

ह्रां ह्रीं ह्रूं हत्तिशोरौक्षपितुकिलिकिलाशब्द अट्‍टाट्‍टहासे ।

हाहाभूतप्रसूते किलिकिलितमुखा कीलयन्ती ग्रसन्ती

हुङ्कारं चोच्चरन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ७ ॥

भृङ्गी काली कपालीपरिजनसहिते चण्डि चामुण्डनित्या

रों रों रोङ्कारनित्ये शशिकरधवले कालकूटे दुरन्ते ।

हुं हुं हुङ्कारकारी सुरगणनमिते कालकारी विकारी

वश्ये त्रैलोक्यकारी प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ८ ॥

वन्दे दण्डप्रचण्डा डमरुरुणिमणिष्टोपटङ्कारघण्टै-

-र्नृत्यन्ती याट्‍टपातैरटपटविभवैर्निर्मला मन्त्रमाला ।

सुक्षौ कक्षौ वहन्ती खरखरितसखाचार्चिनी प्रेतमाला-

-मुच्चैस्तैश्चाट्‍टहासैर्घुरुघुरितरवा चण्डमुण्डा प्रचण्डा ॥ ९ ॥

त्वं ब्राह्मी त्वं च रौद्रा शवशिखिगमना त्वं च देवी कुमारी

त्वं चक्री चक्रहस्ता घुरुघुरितरवा त्वं वराहस्वरूपा ।

रौद्रे त्वं चर्ममुण्डा सकलभुवि परे संस्थिते स्वर्गमार्गे

पाताले शैलशृङ्गे हरिहरनमिते देवि चण्डे नमस्ते ॥ १० ॥

रक्ष त्वं मुण्डधारी गिरिवरविहरे निर्झरे पर्वते वा

सङ्ग्रामे शत्रुमध्ये विश विश भविके सङ्कटे कुत्सिते वा ।

व्याघ्रे चौरे च सर्पेऽप्युदधिभुवि तथा वह्निमध्ये च दुर्गे

रक्षेत्सा दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ११ ॥

इत्येवं बीजमन्त्रैः स्तवनमतिशिवं पातकव्याधिनाशं

प्रत्यक्षं दिव्यरूपं ग्रहगणमथनं मर्दनं शाकिनीनाम् ।

इत्येवं वेगवेगं सकलभयहरं मन्त्रशक्तिश्च नित्यं

मन्त्राणां स्तोत्रकं यः पठति स लभते प्रार्थितां मन्त्रसिद्धिम् ॥ १२ ॥

इति श्रीमार्कण्डेय विरचितं चण्डिका स्तोत्रम् ।

sri chandika stotram