Skip to main content
पडताळणी प्रलंबित

श्री कुमार स्तुतिः (देव कृतम्)

देवा ऊचुः ।

नमः कल्याणरूपाय नमस्ते विश्वमङ्गल ।

विश्वबन्धो नमस्तेऽस्तु नमस्ते विश्वभावन ॥ २ ॥

नमोऽस्तु ते दानववर्यहन्त्रे

बाणासुरप्राणहराय देव ।

प्रलम्बनाशाय पवित्ररूपिणे

नमो नमः शङ्करतात तुभ्यम् ॥ ३ ॥

त्वमेव कर्ता जगतां च भर्ता

त्वमेव हर्ता शुचिज प्रसीद ।

प्रपञ्चभूतस्तव लोकबिम्बः

प्रसीद शम्भ्वात्मज दीनबन्धो ॥ ४ ॥

देवरक्षाकर स्वामिन् रक्ष नः सर्वदा प्रभो ।

देवप्राणावनकर प्रसीद करुणाकर ॥ ५ ॥

हत्वा ते तारकं दैत्यं परिवारयुतं विभो ।

मोचिताः सकला देवा विपद्भ्यः परमेश्वर ॥ ६ ॥

इति श्रीशिवमहापुराणे रुद्रसंहितायां कुमारखण्डे द्वादशोऽध्याये तारकवधानन्तरं देवैः कृत कुमार स्तुतिः ।

sri kumara stuti deva krutam