Skip to main content
पडताळणी प्रलंबित

श्री सुब्रह्मण्य मानसपूजा स्तोत्रम्

श्रीमन्मेरुधराधराधिप महासौभाग्यसंशोभिते

मन्दारद्रुमवाटिकापरिवृते श्रीस्कन्दशैलेमले

सौधे हाटकनिर्मिते मणिमये सन्मण्टपाभ्यन्तरे

ब्रह्मानन्दघनं गुहाख्यमनघं सिंहासनं चिन्तये ॥ १ ॥

मदनायुतलावण्यं नव्यारुणशतारुणम् ।

नीलजीमूतचिकुरं अर्धेन्दु सदृशालिकम् ॥ २ ॥

पुण्डरीकविशालाक्षं पूर्णचन्द्रनिभाननम् ।

चाम्पेय विलसन्नासं मन्दहासाञ्चितोरसम् ॥ ३ ॥

गण्डस्थलचलच्छोत्र कुण्डलं चारुकन्धरम् ।

करासक्तकनःदण्डं रत्नहाराञ्चितोरसम् ॥ ४ ॥

कटीतटलसद्दिव्यवसनं पीवरोरुकम् ।

सुरासुरादिकोटीर नीराजितपदाम्बुजम् ॥ ५ ॥

नानारत्न विभूषाढ्यं दिव्यचन्दनचर्चितम् ।

सनकादि महायोगि सेवितं करुणानिधिम् ॥ ६ ॥

भक्तवाञ्छितदातारं देवसेनासमावृतम् ।

तेजोमयं कार्तिकेयं भावये हृदयाम्बुजे ॥ ७ ॥

आवाहयामि विश्वेशं महासेनं महेश्वरम् ।

तेजस्त्रयात्मकं पीठं शरजन्मन् गृहाण भोः ॥ ८ ॥

अनवद्यं गृहाणेश पाद्यमद्य षडानन ।

पार्वतीनन्दनानर्घ्यं अर्पयाम्यर्घ्यमद्भुतम् ॥ ९ ॥

आचम्यतामग्निजात स्वर्णपात्रोद्यतैर्जलैः ।

पञ्चामृतरसैर्दिव्यैः सुधासमविभावितैः ॥ १० ॥

दधिक्षीराज्यमधुभिः पञ्चगव्यैः फलोदकैः ।

नानाफलरसैर्दिव्यैर्नारिकेलफलोदकैः ॥ ११ ॥

दिव्यौषधिरसैः स्वर्णरत्नोदक कुशोदकैः ।

हिमाम्बुचन्दनरसैर्घनसारादिवासितैः ॥ १२ ॥

ब्रह्माण्डोदरमध्यस्थ तीर्थैः परमपावनैः ।

पावनं परमेशान त्वां तीर्थैः स्नापयाम्यहम् ॥ १३ ॥

सुधोर्मिक्षीरधवलं भस्मनोधूल्यतावकम् ।

सौवर्णवाससाकायां वेष्टयेऽभीष्टसिद्धये ॥ १४ ॥

यज्ञोपवीतं सुज्ञानदायिने तेऽर्पये गुहम् ।

किरीटहारकेयूर भूषणानि समर्पये ॥ १५ ॥

रोचनागरुकस्तूरी सिताभ्रमसृणान्वितम् ।

गन्धसारं सुरभिलं सुरेशाभ्युपगम्यताम् ॥ १६ ॥

रचये तिलकं फाले गन्धं मृगमदेन ते ।

अक्षय्यफलदानर्घानक्षतानर्पये प्रभो ॥ १७ ॥

कुमुदोत्पल कह्लार कमलैः शतपत्रकैः ।

जातीचम्पकपुन्नाग वकुलैः करवीरकैः ॥ १८ ॥

दूर्वाप्रवालमालूर माचीमरुवपत्रकैः ।

अकीटादिहतैर्नव्यैः कोमलैस्तुलसीदलैः ॥ १९ ॥

पावनैश्चन्द्रकदली कुसुमैर्नन्दिवर्धनैः ।

नवमालालिकाभिः मतल्लिकातल्लजैरपि ॥ २० ॥

कुरण्डैरपि शम्याकैः मन्दारैरतिसुन्दरैः ।

अगर्हितैश्च बर्हिष्ठः पाटीदैः पारिजातकैः ॥ २१ ॥

आमोदकुसुमैरन्यैः पूजयामि जगत्पतिम् ।

धूपोऽयं गृह्यतां देव घ्राणेन्द्रिय विमोहकम् ॥ २२ ॥

सर्वान्तरतमोहन्त्रे गुह ते दीपमर्पये ।

सद्यः समाभृतं दिव्यममृतं तृप्तिहेतुकम् ॥ २३ ॥

साल्यान्नमद्भुतं नव्यं गोघृतं सूपसङ्गतम् ।

कदलीनारिकेलामृधान्याद्युर्वारुकादिभिः ॥ २४ ॥

रचितैर्हरितैर्दिव्य खचरीभिः सुपर्पटैः ।

सर्वसंस्तारसम्पूर्णैराज्यपक्वैरतिप्रियैः ॥ २५ ॥

रम्भापनसकूश्माण्डापूपा निष्पक्वमन्तरैः ।

विदारिका कारवेल्ल पटोली तगरोन्मुखैः ॥ २६ ॥

शाकैर्बहुविधैरन्यैः वटकैर्वटुसंस्कृतैः ।

ससूपसारनिर्गम्य सरचीसुरसेन च ॥ २७ ॥

कूश्माण्डखण्डकलित तप्तक रसनेन च ।

सुपक्वचित्रान्नशतैः लड्डुकेड्डुमकादिभिः ॥ २८ ॥

सुधाफलामृतस्यन्दिमण्डक क्षीरमण्डकैः ।

माषापूपगुलापूप गोधूमापूप शर्करैः ॥ २९ ॥

शशाङ्ककिरणोद्भासि पोलिका शष्कुलीमुखैः ।

भक्ष्यैरन्यैः सुरुचिरैः पायसैश्च रसायनैः ॥ ३० ॥

लेह्यैरुच्चावचैः खण्डशर्कराफाणितादिभिः ।

गुडोदकैर्नारिकेलरसैरिक्षुरसैरपि ॥ ३१ ॥

कूर्चिकाभिरनेकाभिः मण्डिकाभिरुपस्कृतम् ।

कदलीचूतपनसगोस्तनी फलराशिभिः ॥ ३२ ॥

नारङ्ग शृङ्गबेरैल मरीचैर्लिकुचादिभिः ।

उपदंशैः शरच्चन्द्र गौरगोदधिसङ्गतम् ॥ ३३ ॥

जम्बीररसकैसर्या हिङ्गुसैन्धवनागरैः ।

लसताजलदग्रेण पानीयेन समाश्रितम् ॥ ३४ ॥

हेमपात्रेषु सरसं साङ्गर्येण च कल्पितम् ।

नित्यतृप्त जगन्नाथ तारकारे सुरेश्वर ॥ ३५ ॥

नैवेद्यं गृह्यतां देव कृपया भक्तवत्सल ।

सर्वलोकैकवरद मृत्यो दुर्दैत्यरक्षसाम् ॥ ३६ ॥

गन्धोदकेन ते हस्तौ क्षालयामि षडानन ।

एलालवङ्गकर्पूर जातीफलसुगन्धिलाम् ॥ ३७ ॥

वीटीं सेवय सर्वेश चेटीकृत जगत्रय ।

दत्तेर्नीराजयामि त्वां कर्पूरप्रभयानय ॥ ३८ ॥

पुष्पाञ्जलिं प्रदास्यामि स्वर्णपुष्पाक्षतैर्युतम् ।

छत्रेण चामरेणापि नृत्तगीतादिभिर्गुह ॥ ३९ ॥

राजोपचारैरखिलैः सन्तुष्टो भव मत्प्रभो ।

प्रदक्षिणं करोमि त्वां विश्वात्मक नमोऽस्तु ते ॥ ४० ॥

सहस्रकृत्वो रचये शिरसा तेऽभिवादनम् ।

अपराधसहस्राणि सहस्व करुणाकर ॥ ४१ ॥

नमः सर्वान्तरस्थाय नमः कैवल्यहेतवे ।

श्रुतिशीर्षकगम्याय नमः शक्तिधराय ते ॥ ४२ ॥

मयूरवाहनस्येदं मानसं च प्रपूजनम् ।

यः करोति सकृद्वापि गुहस्तस्य प्रसीदति ॥ ४३ ॥

इति श्री सुब्रह्मण्य मानस पूजा ।

sri subrahmanya manasa puja stotram