Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्ति षट्कम्

नमो भगवते तुभ्यं वटमूलनिवासिने ।

वागीशाय महाज्ञानदायिने मायिने नमः ॥ १ ॥

गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।

निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ २ ॥

अक्षीणगुणगण्याय दक्षिणाय जगद्भृतौ ।

त्र्यक्षाय सर्वगुरवे दक्षिणामूर्तये नमः ॥ ३ ॥

ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने ।

व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥ ४ ॥

ओं नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।

निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥ ५ ॥

अमलायाद्वितीयाय मोक्षैकफलहेतवे ।

मनोगिरामदूराय दक्षिणामूर्तये नमः ॥ ६ ॥

इति श्री दक्षिणामूर्ति षट्कम् ॥

sri dakshinamurthy shatkam