Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती स्तुतिः (वासुदेवानन्दसरस्वती कृतम्)

हृद्वक्षःस्थितविद्रुमाधिकमदा त्रीशस्य या स्फूर्तिदा

मालापुस्तकपद्मभृच्च वरदा या सर्वभाषास्पदा ।

या शङ्खस्फटिकर्क्षनाथविशदा या शारदा सर्वदा

प्रीता तिष्ठतु मन्मुखे सुवरदा वाग्जाड्यदा सर्वदा ॥ १ ॥

यस्यास्त्रीणि गुहागतानि हि पदान्येकं त्वनेकेडितं

स्तोतुं तां निगमेडितां बुधकुलं जातं त्वलं व्रीडितम् ।

ब्रह्माद्या अपि देवता नहि विदुर्यस्याः परं क्रीडितं

प्रारब्धात्र नुतिर्मयेव रुरुणा शार्दूलविक्रीडितम् ॥ २ ॥

अयि सर्वगुहास्थितेऽजिते

मयि तेऽपाङ्गदृगस्तु पूजिते ।

त्वदृते नहि वागधीश्वरि

व्यवहारोऽपि परावरेश्वरि ॥ ३ ॥

समयोचितवाक्प्रदे मुदे

विदुषां संसदि वादिवाददे ।

मयि मातरशेषधारणा

दयितेऽजस्य सदास्तु तारणा ॥ ४ ॥

यद्धस्ते कमलं च तत्र कमला लीलाविहारी हरि-

-स्तस्याः सन्निकटेऽस्य नाभिकमले स्याल्लोकमूले विधिः ।

वेदा भेदभिदो मुखेषु च विधेर्ये स्वप्रमाणा नृणां

तेभ्यो यज्ञविधिस्ततोऽमरगणा जीवन्ति सा पातु वाक् ॥ ५ ॥

नमो नमस्तेऽस्तु महासरस्वति

प्रसीद मातर्जगतो महस्वति ।

परेशि वाग्वादिनि देवि भास्वति

प्रकाशके तेऽस्तु नभो यशस्वति ॥ ६ ॥

त्रिषष्टिवर्णाऽऽशुगयुक्परा या

भूत्वाथ पश्यन्त्यभिधाथ मध्या ।

स्थानप्रयत्नादिवशान्मुखे च

या वैखरीति प्रणमामि तां गाम् ॥ ७ ॥

त्वं ब्रह्मयोनिरपरा सरस्वति परावरा ।

साक्षात् स्वभक्तहृत्संस्थे प्रसीद मतिचेतने ॥ ८ ॥

सरस्वतीस्तुतिमिमां वासुदेवसरस्वती ।

चक्रे यमनुजप्राह नरसिंहसरस्वती ॥ ९ ॥

इति श्रीवासुदेवानन्दसरस्वती विरचितं श्री सरस्वती स्तुतिः ॥

sri saraswati stuti vasudevananda saraswati krutam