Skip to main content
पडताळणी प्रलंबित

श्री चन्द्रमौलीश्वर वर्णमाला स्तोत्रम्

श्रीशात्मभूमुख्यसुरार्चिताङ्घ्रिं

श्रीकण्ठशर्वादिपदाभिधेयम् ।

श्रीशङ्कराचार्यहृदब्जवासं

श्रीचन्द्रमौलीशमहं नमामि ॥ १

चण्डांशुशीतांशुकृशानुनेत्रं

चण्डीशमुख्यप्रमथेड्यपादम् ।

षडास्यनागास्यसुशोभिपार्श्वं

श्रीचन्द्रमौलीशमहं नमामि ॥ २

द्रव्यादिसृष्टिस्थितिनाशहेतुं

रव्यादितेजांस्यपि भासयन्तम् ।

पव्यायुधादिस्तुतवैभवं तं

श्रीचन्द्रमौलीशमहं नमामि ॥ ३

मौलिस्फुरज्जह्नुसुतासितांशुं

व्यालेशसंवेष्टितपाणिपादम् ।

शूलादिनानायुधशोभमानं

श्रीचन्द्रमौलीशमहं नमामि ॥ ४

लीलाविनिर्धूतकृतान्तदर्पं

शैलात्मजासंश्रितवामभागम् ।

शूलाग्रनिर्भिन्नसुरारिसङ्घं

श्रीचन्द्रमौलीशमहं नमामि ॥ ५

शतैः श्रुतीनां परिगीयमानं

यतैर्मुनीन्द्रैः परिसेव्यमानम् ।

नतैः सुरेन्द्रैरभिपूज्यमानं

श्रीचन्द्रमौलीशमहं नमामि ॥ ६

मत्तेभकृत्या परिशोभिताङ्गं

चित्ते यतीनां सततं वसन्तम् ।

वित्तेशमुख्यैः परिवेष्टितं तं

श्रीचन्द्रमौलीशमहं नमामि ॥ ७

हंसोत्तमैश्चेतसि चिन्त्यमानं

संसारपाथोनिधिकर्णधारम् ।

तं सामगानप्रियमष्टमूर्तिं

श्रीचन्द्रमौलीशमहं नमामि ॥ ८

नताघहं नित्यचिदेकरूपं

सतां गतिं सत्यसुखस्वरूपम् ।

हतान्धकं हृद्यपराक्रमं तं

श्रीचन्द्रमौलीशमहं नमामि ॥ ९

मायातिगं वीतभयं विनिद्रं

मोहान्तकं मृत्युहरं महेशम् ।

फालानलं नीलगलं कृपालुं

श्रीचन्द्रमौलीशमहं नमामि ॥ १०

मित्रं हि यस्याखिलशेवधीशः

पुत्रश्च विघ्नौघविभेददक्षः ।

पात्रं कृपायाश्च समस्तलोकः

श्रीचन्द्रमौलीशमहं नमामि ॥ ११

इति श्री चन्द्रमौलीश्वर वर्णमाला स्तोत्रम् ॥

sri chandramoulishwara varnamala stotram