Skip to main content
पडताळणी प्रलंबित

श्री शिवकेशव स्तुतिः (यम कृतम्)

ध्यानम् ।

माधवोमाधवावीशौ सर्वसिद्धिविहायिनौ ।

वन्दे परस्परात्मानौ परस्परनुतिप्रियौ ॥

स्तोत्रम् ।

गोविन्द माधव मुकुन्द हरे मुरारे

शम्भो शिवेश शशिशेखर शूलपाणे ।

दामोदराऽच्युत जनार्दन वासुदेव

त्याज्याभटाय इति सन्ततमामनन्ति ॥ १

गङ्गाधरान्धकरिपो हर नीलकण्ठ

वैकुण्ठकैटभरिपो कमठाब्जपाणे ।

भूतेश खण्डपरशो मृड चण्डिकेश

त्याज्याभटाय इति सन्ततमामनन्ति ॥ २

विष्णो नृसिंह मधुसूदन चक्रपाणे

गौरीपते गिरिश शङ्कर चन्द्रचूड ।

नारायणाऽसुरनिबर्हण शार्ङ्गपाणे

त्याज्याभटाय इति सन्ततमामनन्ति ॥ ३

मृत्युञ्जयोग्र विषमेक्षण कामशत्रो

श्रीकण्ठ पीतवसनाम्बुदनीलशौरे ।

ईशान कृत्तिवसन त्रिदशैकनाथ

त्याज्याभटाय इति सन्ततमामनन्ति ॥ ४

लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्य

श्रीकण्ठ दिग्वसन शान्त पिनाकपाणे ।

आनन्दकन्द धरणीधर पद्मनाभ

त्याज्याभटाय इति सन्ततमामनन्ति ॥ ५

सर्वेश्वर त्रिपुरसूदन देवदेव

ब्रह्मण्यदेव गरुडध्वज शङ्खपाणे ।

त्र्यक्षोरगाभरण बालमृगाङ्कमौले

त्याज्याभटाय इति सन्ततमामनन्ति ॥ ६

श्रीराम राघव रमेश्वर रावणारे

भूतेश मन्मथरिपो प्रमथाधिनाथ ।

चाणूरमर्दन हृषीकपते मुरारे

त्याज्याभटाय इति सन्ततमामनन्ति ॥ ७

शूलिन् गिरीश रजनीशकलावतंस

कंसप्रणाशन सनातन केशिनाश ।

भर्ग त्रिनेत्र भव भूतपते पुरारे

त्याज्याभटाय इति सन्ततमामनन्ति ॥ ८

गोपीपते यदुपते वसुदेवसूनो

कर्पूरगौर वृषभध्वज फालनेत्र ।

गोवर्धनोद्धरण धर्मधुरीण गोप

त्याज्याभटाय इति सन्ततमामनन्ति ॥ ९

स्थाणो त्रिलोचन पिनाकधर स्मरारे

कृष्णाऽनिरुद्ध कमलाकर कल्मषारे ।

विश्वेश्वर त्रिपथगार्द्रजटाकलाप

त्याज्याभटाय इति सन्ततमामनन्ति ॥ १०

अष्टोत्तराधिकशतेन सुचारुनाम्नां

सन्धर्भितां ललितरत्नकदम्बकेन ।

सन्नामकां दृढगुणां द्विजकण्ठगां यः

कुर्यादिमां स्रजमहो स यमं न पश्येत् ॥ ११

इति यमकृत श्री शिवकेशव स्तुति ।

yama kruta shiva keshava stuti