Skip to main content
पडताळणी प्रलंबित

मृतसञ्जीवन स्तोत्रम्

एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम् ।

मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ॥ १ ॥

सारात्सारतरं पुण्यं गुह्याद्गुह्यतरं शुभम् ।

महादेवस्य कवचं मृतसञ्जीवनामकम् ॥ २ ॥

समाहितमना भूत्वा शृणुष्व कवचं शुभम् ।

शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ॥ ३ ॥

वराभयकरो यज्वा सर्वदेवनिषेवितः ।

मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥ ४ ॥

दधानः शक्तिमभयां त्रिमुखं षड्भुजः प्रभुः ।

सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥ ५ ॥

अष्टादशभुजोपेतो दण्डाभयकरो विभुः ।

यमरूपी महादेवो दक्षिणस्यां सदावतु ॥ ६ ॥

खड्गाभयकरो धीरो रक्षोगणनिषेवितः ।

रक्षोरूपी महेशो मां नैरृत्यां सर्वदावतु ॥ ७ ॥

पाशाभयभुजः सर्वरत्नाकरनिषेवितः ।

वरुणात्मा महादेवः पश्चिमे मां सदावतु ॥ ८ ॥

गदाभयकरः प्राणनायकः सर्वदागतिः ।

वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥ ९ ॥

शङ्खाभयकरस्थो मां नायकः परमेश्वरः ।

सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥ १० ॥

शूलाभयकरः सर्वविद्यानामधिनायकः ।

ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥ ११ ॥

ऊर्ध्वभागे ब्रह्मरूपी विश्वात्माधः सदावतु ।

शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः ॥ १२ ॥

भ्रूमध्यं सर्वलोकेशस्त्रिनेत्रो लोचनेऽवतु ।

भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥ १३ ॥

नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः ।

जिह्वां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ॥ १४ ॥

मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणः ।

पिनाकि मत्करौ पातु त्रिशूलि हृदयं मम ॥ १५ ॥

पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः ।

नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥ १६ ॥

कटद्वयं गिरीशो मे पृष्ठं मे प्रमथाधिपः ।

गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥ १७ ॥

जानुनी मे जगद्धर्ता जङ्घे मे जगदम्बिका ।

पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥ १८ ॥

गिरिशः पातु मे भार्यां भवः पातु सुतान्मम ।

मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥ १९ ॥

सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः ।

एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् ॥ २० ॥

मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् ।

सहस्रावर्तनं चास्य पुरश्चरणमीरितम् ॥ २१ ॥

यः पठेच्छृणुयान्नित्यं श्रावयेत्सु समाहितः ।

स कालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥ २२ ॥

हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ ।

आधयोव्याधयस्तस्य न भवन्ति कदाचन ॥ २३ ॥

कालमृत्युमपि प्राप्तमसौ जयति सर्वदा ।

अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥ २४ ॥

युद्धारम्भे पठित्वेदमष्टाविंशतिवारकम् ।

युद्धमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥ २५ ॥

न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै ।

विजयं लभते देवयुद्धमध्येऽपि सर्वदा ॥ २६ ॥

प्रातरुत्थाय सततं यः पठेत्कवचं शुभम् ।

अक्षय्यं लभते सौख्यमिहलोके परत्र च ॥ २७ ॥

सर्वव्याधिविनिर्मुक्तः सर्वरोगविवर्जितः ।

अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥ २८ ॥

विचरत्यखिलान्लोकान्प्राप्य भोगांश्च दुर्लभान् ।

तस्मादिदं महागोप्यं कवचं समुदाहृतम् ॥ २९ ॥

मृतसञ्जीवनं नाम्ना देवतैरपि दुर्लभम् ॥ ३० ॥

इति वसिष्ठ कृत मृतसञ्जीवन कवच स्तोत्रम् ॥

mritasanjeevani stotram in hindi