Skip to main content
पडताळणी प्रलंबित

गौरीदशकम् श्रीशंकराचार्यकृत

लीलालब्धस्थापितलुप्ताखिललोकां लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् । बालादित्यश्रेणिसमानद्युतिपुञ्जां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥१॥ अशापाशक्लेशविनाशं विदधानां पादांभोजध्यानपराणां पुरुषाणाम् । ईशामीशार्धाङ्गहरां तामभिरामां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥२॥ नानाकारैश्शक्तिकदम्बैर्भुवानानि व्याप्य स्वैरं क्रीडति येयं स्वयमेका । कल्याणीं तां कल्पलतामानतिभाजां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥३॥ मूलाधारादुत्थितरीत्या विधिरन्धं सौरं चान्द्रं व्याप्य विहारज्वलितांगीम् । येयं सूक्ष्मात् सूक्ष्मतनुस्तां सुखरूपां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥४॥ यस्यामोतं प्रोतमशेषं मणिमाला- सूत्रे यद्वत् क्वापि चरं चाप्यचरं च । तामध्यात्मज्ञानपदव्या गमनीयां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥५॥ प्रत्याहारध्यानसमाधिस्थितिभाजां नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् । सत्यज्ञानानन्दमयीं तां तनुमध्यां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥६॥ चन्द्रापीडानन्दितमन्दस्मितवक्त्रां चन्द्रापीडालंकृतनीलालकभाराम् । इन्द्रोपेन्द्रार्चितपादांबुजयुग्मां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥७॥ आदिक्षान्तामक्षरमूर्त्या विलसन्तीं भूते भूते भूतकदम्बप्रसवित्रीम् । श गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥८॥ यस्याः कुक्षौ लीनमखण्डं जगदण्डं भूयो भूयः प्रादुरभूदुत्थितमेव । पत्या सार्धं राजतशैले विहरन्तीं गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥९॥ नित्यः शुद्धो निष्कल एको जगदीशः साक्षी यस्याः सर्गविधौ संहरेण च । विश्वत्राणक्रीडनलोलां शिवपत्नीं गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥१०॥ प्रातःकाले भावविशुद्धिं विदधानो भक्त्या नित्यं जल्पति गौरीदशकं यः । वाचां सिद्धिं संपदमुच्चैश्शिवभक्तिं तस्यावश्यं पर्वतपुत्री विदधाति ॥११॥ gauri dashkam stotram