Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणास्य नक्षत्रमाला स्तोत्रम्

श्रीकण्ठमिन्द्वर्भकभासिचूडं

श्रीज्ञानदानव्रतबद्धदीक्षम् ।

श्रीशाम्बुजन्मप्रभवादिपूज्यं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १ ॥

हरन्तमानम्रजनानुतापं

हयेभवक्त्रेडितपादपद्मम् ।

हृदा मुनीन्द्रैः परिचिन्त्यमानं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २ ॥

हस्ताब्जराजद्वरपुस्तमुद्रा-

-मुक्ताक्षमालामृतपूर्णकुम्भम् ।

हरिद्धवाकाङ्क्षितपादसेवं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ३ ॥

हंसाग्निचन्द्रेक्षणमन्धकारि-

-माकारनिर्धूतमनोजगर्वम् ।

हृतादिमाज्ञानमगोद्भवेशं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ४ ॥

हत्वा पुरा कालमखर्वगर्वं

मृकण्डुसूनोः परिरक्षणं यः ।

चकार कारुण्यवशात्तमेनं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ५ ॥

हृत्वा तमः सत्वरमेव हार्दं

दत्वा च बोधं परमार्थसंस्थम् ।

मोक्षं ददात्याशु नताय यस्तं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ६ ॥

हसन्मुखाम्भोरुहमिन्दुकुन्द-

-नीकाशदन्तावलिशोभमानम् ।

रदाम्बराधःकृतपक्वबिम्बं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ७ ॥

हेलालवान्निर्मितविश्वबृन्दं

बालारुणाभाङ्घ्रियुगं दयालुम् ।

पश्यन्तमुत्सङ्गगतं षडास्यं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ८ ॥

ह्रीमान्भवेद्देवगुरुर्यदीय-

-पादाब्जसंसेवकलोकवाचा ।

तं दिव्यवाग्दानधुरीणमाशु

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ९ ॥

हारायिताहीशमनङ्गगर्व-

-भङ्गप्रगल्भान्प्रणतानशेषान् ।

कुर्वन्तमिष्टप्रदमष्टमूर्तिं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १० ॥

हरिर्जहाराचलकन्यका च

यद्वर्ष्मणोऽर्धं तपसा हि पूर्वम् ।

अतोऽशरीरं तमशेषसंस्थं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ११ ॥

हन्यादशेषं कलुषं यदङ्घ्रि-

-पूजा प्रदद्यादपि सर्वमिष्टम् ।

तं पार्वतीमानसराजहंसं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १२ ॥

हठादियोगान् प्रविधाय चित्त-

-स्थैर्यं प्रपद्याङ्घ्रियुगं यदीयम् ।

ध्यायन्ति योगिप्रवरा मुदा तं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १३ ॥

हितोपदेष्टा दयया नतानां

निसर्गया यो यमिनां जवाद्धि ।

न्यग्रोधमूलैकनिकेतनं तं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १४ ॥

हतारिषट्कैरनुभूयमानं

नितान्तमानन्दघनस्वरूपम् ।

नतापराधान्सहमानमीशं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १५ ॥

हित्वा धनापत्यकलत्रबन्धून्

दत्त्वाभयं भूतततेर्द्विजाग्र्याः ।

यं यान्ति लोके शरणं सदा तं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १६ ॥

हृदम्बुजाते विनिवेश्य चित्तं

निरुध्य चक्षुःप्रमुखाक्षवर्गम् ।

ध्यायन्ति यं शैलसुतायुतं तं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १७ ॥

हासप्रभानिर्जितभाभिमानं

प्रासार्थजुष्टां कवितां दिशन्तम् ।

नतोत्तमाङ्गेषु करं दधानं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १८ ॥

हैय्यङ्गवीनं हृदयम्रदिम्ना

स्वरेण हंसं चरणेन पद्मम् ।

हसन्तमंसाग्रलसज्जटालं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १९ ॥

हरेर्विधेश्चैव विवादशान्त्यै

लिङ्गात्मना यः प्रबभूव पूर्वम् ।

तमादिमध्यान्तविहीनरूपं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २० ॥

हुताशनादित्यमहीप्रमुख्या

यस्याष्टमूर्तीर्निजगाद वेदः ।

तं सर्वलोकावनसक्तचित्तं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २१ ॥

हस्त्यन्तलक्ष्मीमपि दीनवर्यः

प्राप्नोति यत्पादसरोजनत्या ।

तं कल्पवल्लीमदभङ्गदक्षं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २२ ॥

हयाग्र्यमारुह्य गजोत्तमं वा

समेत्य यत्पादयुगार्चकाय ।

यच्छन्ति राज्यं धरणीधवास्तं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २३ ॥

हवींषि सञ्जुह्वति भूसुराग्र्याः

कालेषु वह्नौ यदनुग्रहार्थम् ।

कर्मानुगुण्येन फलप्रदं तं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २४ ॥

हेत्या ललाटस्थशुचेर्महाघ-

-वनं दहन्तं तरसैव मोदात् ।

कुर्वन्तमारान्नतचित्तशुद्धिं

श्रीदक्षिणास्यं हदि भावयेऽहम् ॥ २५ ॥

हेमाश्मनोः साम्यमतिं करोति

यत्पादपाथोरुहसक्तचित्तः ।

वैराग्यदानैकधुरन्धरं तं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २६ ॥

हालास्यगोकर्णमुखेषु दिव्य-

-क्षेत्रेषु वासं कृपया करोति ।

यः पादनम्रोद्धतये सदा तं

श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २७ ॥

हंसेन केनापि परादिनेमां

कृतां प्रयत्नादतिमोदतश्च ।

नक्षत्रमालां दधतां नराणां

कण्ठे भविष्यत्यचिरात्पराप्तिः ॥ २८ ॥

इति श्रीजगद्गुरु श्रीसच्चिदानन्द शिवाभिनव नृसिंह भारती स्वामिभिः विरचितं श्री दक्षिणास्य नक्षत्रमाला स्तोत्रम् ।

sri dakshinamurthy nakshatramala stotram