Skip to main content
पडताळणी प्रलंबित

श्री जोगुलाम्बाष्टकम्

महायोगिपीठस्थले तुङ्गभद्रा-

-तटे सूक्ष्मकाश्यां सदासंवसन्तीम् ।

महायोगिब्रह्मेशवामाङ्कसंस्थां

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ १ ॥

ज्वलद्रत्नवैडूर्यमुक्ताप्रवाल

प्रवीण्यस्थगाङ्गेयकोटीरशोभाम् ।

सुकाश्मीररेखाप्रभाख्यां स्वफाले

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ २ ॥

स्वसौन्दर्यमन्दस्मितां बिन्दुवक्त्रां

रसत्कज्जलालिप्त पद्माभनेत्राम् ।

परां पार्वतीं विद्युदाभासगात्रीं

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ३ ॥

घनश्यामलापादसंलोक वेणीं

मनः शङ्करारामपीयूषवाणीम् ।

शुकाश्लिष्टसुश्लाघ्यपद्माभपाणीं

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ४ ॥

सुधापूर्ण गाङ्गेयकुम्भस्तनाढ्यां

लसत्पीतकौशेयवस्त्रां स्वकट्याम् ।

गलेरत्नमुक्तावलीपुष्पहारां

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ५ ॥

शिवां शाङ्करीं सर्वकल्याणशीलां

भवानीं भवाम्भोनिधेर्दिव्यनौकाम् ।

कुमारीं कुलोत्तारणीमादिविद्यां

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ६ ॥

चलत्किङ्किणीं नूपुरापादपद्मां

सुरेन्द्रैर्मृगेन्द्रैर्महायोगिबृन्दैः ।

सदा संस्तुवन्तीं परं वेदविद्भिः

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ७ ॥

हरेः सोदरीं हव्यवाहस्वरूपां

प्रसन्नां प्रपन्नार्तिहन्त्रीं प्रसिद्धाम् ।

महासिद्धिबुद्ध्यादिवन्द्यां परेशीं

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ८ ॥

इदं जोगुलाम्बाष्टकं यः पठेद्वा

प्रभाते निशार्धेऽथवा चित्तशुद्धिः ।

पृथिव्यां परं सर्वभोगांश्च भुक्त्वा

श्रियं मुक्तिमाप्नोति दिव्यां प्रसिद्धः ॥ ९ ॥

इति श्री जोगुलाम्बाष्टकम् ।

sri jogulamba ashtakam