Skip to main content
पडताळणी प्रलंबित

श्री सर्वमङ्गला स्तोत्रम्

ब्रह्मोवाच ।

दुर्गे शिवेऽभये माये नारायणि सनातनि ।

जये मे मङ्गलं देहि नमस्ते सर्वमङ्गले ॥ १ ॥

दैत्यनाशार्थवचनो दकारः परिकीर्तितः ।

उकारो विघ्ननाशार्थवाचको वेदसम्मतः ॥ २ ॥

रेफो रोगघ्नवचनो गश्च पापघ्नवाचकः ।

भयशत्रुघ्नवचनश्चाऽऽकारः परिकीर्तितः ॥ ३ ॥

स्मृत्युक्तिस्मरणाद्यस्या एते नश्यन्ति निश्चितम् ।

अतो दुर्गा हरेः शक्तिर्हरिणा परिकीर्तिता ॥ ४ ॥

विपत्तिवाचको दुर्गश्चाऽऽकारो नाशवाचकः ।

दुर्गं नश्यति या नित्यं सा च दुर्गा प्रकीर्तिता ॥ ५ ॥

दुर्गो दैत्येन्द्रवचनोऽप्याकारो नाशवाचकः ।

तं ननाश पुरा तेन बुधैर्दुर्गा प्रकीर्तिता ॥ ६ ॥

शश्च कल्याणवचन इकारोत्कृष्टवाचकः ।

समूहवाचकश्चैव वाकारो दातृवाचकः ॥ ७ ॥

श्रेयः सङ्घोत्कृष्टदात्री शिवा तेन प्रकीर्तिता ।

शिवराशिर्मूर्तिमती शिवा तेन प्रकीर्तिता ॥ ८ ॥

शिवो हि मोक्षवचनश्चाऽऽकारो दातृवाचकः ।

स्वयं निर्वाणदात्री या सा शिवा परिकीर्तिता ॥ ९ ॥

अभयो भयनाशोक्तश्चाऽऽकारो दातृवाचकः ।

प्रददात्यभयं सद्यः साऽभया परिकीर्तिता ॥ १० ॥

राजश्रीवचनो माश्च याश्च प्रापणवाचकः ।

तां प्रापयति या नित्यं सा माया परिकीर्तिता ॥ ११ ॥

माश्च मोक्षार्थवचनो याश्च प्रापणवाचकः ।

तं प्रापयति या सद्यः सा माया परिकीर्तिता ॥ १२ ॥

नारायणार्धाङ्गभूता तेन तुल्या च तेजसा ।

सदा तस्य शरीरस्था तेन नारायणी स्मृता ॥ १३ ॥

निर्गुणस्य च नित्यस्य वाचकश्च सनातनः ।

सदा नित्या निर्गुणा या कीर्तिता सा सनातनी ॥ १४ ॥

जयः कल्याणवचनो ह्याकारो दातृवाचकः ।

जयं ददाति या नित्यं सा जया परिकीर्तिता ॥ १५ ॥

सर्वमङ्गलशब्दश्च सम्पूर्णैश्वर्यवाचकः ।

आकारो दातृवचनस्तद्दात्री सर्वमङ्गला ॥ १६ ॥

नामाष्टकमिदं सारं नामार्थसहसम्युतम् ।

नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे ॥ १७ ॥

तस्मै दत्त्वा निद्रितश्च बभूव जगतां पतिः ।

मधुकैटभौ दुर्दान्तौ ब्रह्माणं हन्तुमुद्यतौ ॥ १८ ॥

स्तोत्रेणानेन स ब्रह्मा स्तुतिं नत्वा चकार ह ।

साक्षात् स्तुता तदा दुर्गा ब्रह्मणे कवचं ददौ ॥ १९ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे सप्तविंशोऽध्याये ब्रह्मकृत सर्वमङ्गला स्तोत्रम् ।

sri sarvamangala stotram