Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्ति पञ्चरत्न स्तवम्

मत्तरोगशिरोपरिस्थितनृत्यमानपदाम्बुजं

भक्तचिन्तितसिद्धिकालविचक्षणं कमलेक्षणम् ।

भुक्तिमुक्तिफलप्रदं भुवि पद्मजाच्युतपूजितं

दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ १ ॥

वित्तदप्रियमर्चितं कृतकृशा तीव्रतपोव्रतैः

मुक्तिकामिभिराश्रितैः मुहुर्मुनिभिर्दृढमानसैः ।

मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनां

दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ २ ॥

कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै

यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् ।

रत्नभुग्गणनाथभृद्भ्रमरार्चिताङ्घ्रिसरोरुहं

दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ३ ॥

नक्तनादकलाधरं नगजापयोधरमण्डलं

लिप्तचन्दनपङ्ककुङ्कुममुद्रितामलविग्रहम् ।

शक्तिमन्तमशेषसृष्टिविधानके सकलं प्रभुं

दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ४ ॥

रक्तनीरजतुल्यपादपयोज सन्मणि नूपुरं

बन्धनत्रयभेद पेशल पङ्कजाक्ष शिलीमुखम् ।

हेमशैलशरासनं पृथु शिञ्जिनीकृत दक्षकं

दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ५ ॥

यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः

पुरातले मयाकृतं निखिलागममूलमहानलम् ।

तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपाबलात्

ते महेश्वर शङ्कराखिलविश्वनायक शाश्वत ॥ ६ ॥

इति अगस्त्य कृत श्री दक्षिणामूर्ति पञ्चरत्न स्तवम् ।

sri dakshinamurthy pancharatna stotram