Skip to main content
पडताळणी प्रलंबित

श्री गणेश महिम्नः स्तोत्रम्

अनिर्वाच्यं रूपं स्तवननिकरो यत्र गलित-

-स्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्यात्र महतः ।

यतो जातं विश्वं स्थितमपि सदा यत्र विलयः

स कीदृग्गीर्वाणः सुनिगमनुतः श्रीगणपतिः ॥ १ ॥

गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधाः

रविं सौरा विष्णुं प्रथमपुरुषं विष्णुभजकाः ।

वदन्त्येकं शाक्ताः जगदुदयमूलां परिशिवां

न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ॥ २ ॥

तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं

समीमांसा वेदान्तिन इति परं ब्रह्म सकलम् ।

अजां साङ्ख्यो ब्रूते सकलगुणरूपां च सततं

प्रकर्तारं न्यायस्त्वथ जगति बौद्धा धियमिति ॥ ३ ॥

कथं ज्ञेयो बुद्धेः परतर इयं बाह्यसरणि-

-र्यथा धीर्यस्य स्यात्स च तदनुरूपो गणपतिः ।

महत्कृत्यं तस्य स्वयमपि महान्सूक्ष्ममणुव-

-द्ध्वनिर्ज्योतिर्बिन्दुर्गगनसदृशः किं च सदसत् ॥ ४ ॥

अनेकास्योऽपाराक्षिकरचरणोऽनन्तहृदय-

-स्तथा नानारूपो विविधवदनः श्रीगणपतिः ।

अनन्ताह्वः शक्त्या विविधगुणकर्मैकसमये

त्वसङ्ख्यातानन्ताभिमतफलदोऽनेकविषये ॥ ५ ॥

न यस्यान्तो मध्यो न च भवति चादिः सुमहता-

-मलिप्तः कृत्वेत्थं सकलमपि खंवत्स च पृथक् ।

स्मृतः संस्मर्तॄणां सकलहृदयस्थः प्रियकरो

नमस्तस्मै देवाय सकलसुवन्द्याय महते ॥ ६ ॥

गणेशाद्यं बीजं दहनवनितापल्लवयुतं

मनुश्चैकार्णोऽयं प्रणवसहितोऽभीष्टफलदः ।

सबिन्दुश्चाङ्गाद्यां गणकऋषिछन्दोऽस्य च निचृ-

-त्स देवः प्राग्बीजं विपदपि च शक्तिर्जपकृताम् ॥ ७ ॥

गकारो हेरम्बः सगुण इति पुंनिर्गुणमयो

द्विधाप्येको जातः प्रकृतिपुरुषो ब्रह्म हि गणः ।

स चेशश्चोत्पत्तिस्थितिलयकरोऽयं प्रथमको

यतो भूतं भव्यं भवति पतिरीशो गणपतिः ॥ ८ ॥

गकारः कण्ठोर्ध्वं गजमुखसमो मर्त्यसदृशो

णकारः कण्ठाधो जठरसदृशाकार इति च ।

अधोभावः कट्यां चरण इति हीशोऽस्य च तनु-

-र्विभातीत्थं नाम त्रिभुवनसमं भूर्भुवः सुवः ॥ ९ ॥

गणेशेति त्र्यर्णात्मकमपि वरं नाम सुखदं

सकृत्प्रोच्चैरुच्चारितमिति नृभिः पावनकरम् ।

गणेशस्यैकस्य प्रतिजपकरस्यास्य सुकृतं

न विज्ञातो नाम्नः सकलमहिमा कीदृशविधः ॥ १० ॥

गणेशेत्याह्वां यः प्रवदति मुहुस्तस्य पुरतः

प्रपश्यंस्तद्वक्त्रं स्वयमपि गणस्तिष्ठति तदा ।

स्वरूपस्य ज्ञानं त्वमुक इति नाम्नास्य भवति

प्रबोधः सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥ ११ ॥

गणेशो विश्वेऽस्मिन् स्थित इह च विश्वं गणपतौ

गणेशो यत्रास्ते धृतिमतिरमैश्वर्यमखिलम् ।

समुक्तं नामैकं गणपतिपदं मङ्गलमयं

तदेकास्ये दृष्टे सकलविबुधास्येक्षणसमम् ॥ १२ ॥

बहुक्लेशैर्व्याप्तः स्मृत उत गणेशे च हृदये

क्षणात् क्लेशान्मुक्तोभवति सहसा त्वभ्रचयवत् ।

वने विद्यारम्भे युधि रिपुभये कुत्र गमने

प्रवेशे प्राणान्ते गणपतिपदं चाशु विशति ॥ १३ ॥

गणाध्यक्षो ज्येष्ठः कपिल अपरो मङ्गलनिधि-

-र्दयालुर्हेरम्बो वरद इति चिन्तामणिरजः ।

वरानीशो ढुण्ढिर्गजवदननामा शिवसुतो

मयूरेशो गौरीतनय इति नामानि पठति ॥ १४ ॥

महेशोऽयं विष्णुः सकविरविरिन्दुः कमलजः

क्षितिस्तोयं वह्निः श्वसन इति खं त्वद्रिरुदधिः ।

कुजस्तारः शुक्रो पुरुरुडुबुधोऽगुश्च धनदो

यमः पाशी काव्यः शनिरखिलरूपो गणपतिः ॥ १५ ॥

मुखं वह्निः पादौ हरिरपि विधाता प्रजननं

रविर्नेत्रे चन्द्रो हृदयमपि कामोऽस्य मदनः ।

करौ शक्रः कट्यामवनिरुदरं भाति दशनं

गणेशस्यासन्वै क्रतुमयवपुश्चैव सकलम् ॥ १६ ॥

अनर्घ्यालङ्कारैररुणवसनैर्भूषिततनुः

करीन्द्रास्यः सिंहासनमुपगतो भाति बुधराट् ।

स्मितास्यात्तन्मध्येऽप्युदितरविबिम्बोपमरुचिः

स्थिता सिद्धिर्वामे मतिरितरगा चामरकरा ॥ १७ ॥

समन्तात्तस्यासन् प्रवरमुनिसिद्धाः सुरगणाः

प्रशंसन्तीत्यग्रे विविधनुतिभिः साञ्जलिपुटाः ।

बिडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरै-

-र्गणक्रीडामोदप्रमुदविकटाद्यैः सहचरैः ॥ १८ ॥

वशित्वाद्यष्टाष्टादशदिगखिलाल्लोलमनुवा-

-ग्धृतिः पादूः खड्गोञ्जनरसबलाः सिद्धय इमाः ।

सदा पृष्ठे तिष्ठन्त्यनिमिषदृशस्तन्मुखलयाः

गणेशं सेवन्तेऽप्यतिनिकटसूपायनकराः ॥ १९ ॥

मृगाङ्कास्या रम्भाप्रभृतिगणिका यस्य पुरतः

सुसङ्गीतं कुर्वन्त्यपि कुतुकगन्धर्वसहिताः ।

मुदः पारो नात्रेत्यनुपमपदे दौर्विगलिता

स्थिरं जातं चित्तं चरणमवलोक्यास्य विमलम् ॥ २० ॥

हरेणायं ध्यातस्त्रिपुरमथने चासुरवधे

गणेशः पार्वत्या बलिविजयकालेऽपि हरिणा ।

विधात्रा संसृष्टावुरगपतिना क्षोणिधरणे

नरैः सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुषा ॥ २१ ॥

अयं सुप्रासादे सुर इव निजानन्दभुवने

महान् श्रीमानाद्यो लघुतरगृहे रङ्कसदृशः ।

शिवद्वारे द्वाःस्थो नृप इव सदा भूपतिगृहे

स्थितो भूत्वोमाङ्के शिशुगणपतिर्लालनपरः ॥ २२ ॥

अमुष्मिन् सन्तुष्टे गजवदन एवापि विबुधे

ततस्ते सन्तुष्टास्त्रिभुवनगताः स्युर्बुधगणाः ।

दयालुर्हेरम्बो न च भवति यस्मिंश्च पुरुषे

वृथा सर्वं तस्य प्रजननमतः सान्द्रतमसि ॥ २३ ॥

वरेण्यो भूशुण्डिर्भृगुगुरुकुजा मुद्गलमुखा

ह्यपारास्तद्भक्ता जपहवनपूजास्तुतिपराः ।

गणेशोऽयं भक्तप्रिय इति च सर्वत्र गदितं

विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गणः ॥ २४ ॥

मृदः काश्चिद्धातोश्छदविलिखिता वापि दृषदः

स्मृता व्याजान्मूर्तिः पथि यदि बहिर्येन सहसा ।

अशुद्धोऽद्धा द्रष्टा प्रवदति तदाह्वां गणपतेः

श्रुता शुद्धो मर्त्यो भवति दुरिताद्विस्मय इति ॥ २५ ॥

बहिर्द्वारस्योर्ध्वं गजवदनवर्ष्मेन्धनमयं

प्रशस्तं वा कृत्वा विविधकुशलैस्तत्र निहतम् ।

प्रभावात्तन्मूर्त्या भवति सदनं मङ्गलमयं

विलोक्यानन्दस्तां भवति जगतो विस्मय इति ॥ २६ ॥

सिते भाद्रे मासे प्रतिशरदि मध्याह्नसमये

मृदो मूर्तिं कृत्वा गणपतितिथौ ढुण्ढिसदृशीम् ।

समर्चत्युत्साहः प्रभवति महान् सर्वसदने

विलोक्यानन्दस्तां प्रभवति नृणां विस्मय इति ॥ २७ ॥

तथा ह्येकः श्लोको वरयति महिम्नो गणपतेः

कथं स श्लोकेऽस्मिन् स्तुत इति भवेत्सम्प्रपतिते ।

स्मृतं नामास्यैकं सकृदिदमनन्ताह्वयसमं

यतो यस्यैकस्य स्तवनसदृशं नान्यदपरम् ॥ २८ ॥

गजवदन विभो यद्वर्णितं वैभवं ते

त्विह जनुषि ममेत्थं चारु तद्दर्शयाशु ।

त्वमसि च करुणायाः सागरः कृत्स्नदाता-

-प्यति तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि ॥ २९ ॥

सुस्तोत्रं प्रपठतु नित्यमेतदेव

स्वानन्दं प्रति गमनेऽप्ययं सुमार्गः ।

सञ्चिन्त्यं स्वमनसि तत्पदारविन्दं

स्थाप्याग्रे स्तवनफलं नतीः करिष्ये ॥ ३० ॥

गणेशदेवस्य माहात्म्यमेत-

-द्यः श्रावयेद्वापि पठेच्च तस्य ।

क्लेशा लयं यान्ति लभेच्च शीघ्रं

स्त्रीपुत्रविद्यार्थगृहं च मुक्तिम् ॥ ३१ ॥

इति श्रीपुष्पदन्तविरचितं श्रीगणेशमहिम्नः स्तोत्रम् ।

sri ganesha mahimna stotram