Skip to main content
पडताळणी प्रलंबित

श्री कुब्जिका वर्णन स्तोत्रम्

नीलोत्पलदलश्यामा षड्वक्त्रा षट्प्रकाशका ।

चिच्छक्तिरष्टादशाख्या बाहुद्वादशसम्युता ॥ १ ॥

सिंहासनसुखासीना प्रेतपद्मोपरिस्थिता ।

कुलकोटिसहस्राख्या कर्कोटो मेखलास्थितः ॥ २ ॥

तक्षकेणोपरिष्टाच्च गले हारश्च वासुकिः ।

कुलिकः कर्णयोर्यस्याः कूर्मः कुण्डलमण्डलः ॥ ३ ॥

भ्रुवोः पद्मो महापद्मो वामे नागः कपालकः ।

अक्षसूत्रं च खट्वाङ्गं शङ्खं पुस्तं च दक्षिणे ॥ ४ ॥

त्रिशूलं दर्पणं खड्गं रत्नमालाङ्कुशं धनुः ।

श्वेतमूर्धं मुखं देव्या ऊर्ध्वश्वेतं तथाम् ॥ ५ ॥

पूर्वास्यं पाण्डुरं क्रोधि दक्षिणं कृष्णवर्णकम् ।

हिमकुन्देन्दुभं सौम्यं ब्रह्मा पादतले स्थितः ॥ ६ ॥

विष्णुस्तु जघने रुद्रो हृदि कण्ठे तथेश्वरः ।

सदाशिवो ललाटे स्याच्छिवस्तस्योर्ध्वतः स्थितः ।

आघूर्णिता कुब्जिकैवं ध्येया पूजादिकर्मसु ॥ ७ ॥

इत्याग्नेये महापुराणे कुब्जिकापूजाकथनं नाम चतुश्चत्वारिंशदधिकशततमोऽध्याये कुब्जिका वर्णन स्तोत्रम् ।

sri kubjika varnana stotram