Skip to main content
पडताळणी प्रलंबित

श्री गणेशावतार स्तोत्रम्

अङ्गिरस उवाच ।

अनन्ता अवताराश्च गणेशस्य महात्मनः ।

न शक्यते कथां वक्तुं मया वर्षशतैरपि ॥ १ ॥

सङ्क्षेपेण प्रवक्ष्यामि मुख्यानां मुख्यतां गतान् ।

अवतारांश्च तस्याष्टौ विख्यातान् ब्रह्मधारकान् ॥ २ ॥

वक्रतुण्डावतारश्च देहिनां ब्रह्मधारकः ।

मत्सुरासुरहन्ता स सिंहवाहनगः स्मृतः ॥ ३ ॥

एकदन्तावतारो वै देहिनां ब्रह्मधारकः ।

मदासुरस्य हन्ता स आखुवाहनगः स्मृतः ॥ ४ ॥

महोदर इति ख्यातो ज्ञानब्रह्मप्रकाशकः ।

मोहासुरस्य शत्रुर्वै आखुवाहनगः स्मृतः ॥ ५ ॥

गजाननः स विज्ञेयः साङ्ख्येभ्यः सिद्धिदायकः ।

लोभासुरप्रहर्ता च मूषकगः प्रकीर्तितः ॥ ६ ॥

लम्बोदरावतारो वै क्रोधासुरनिबर्हणः ।

आखुगः शक्तिब्रह्मा सन् तस्य धारक उच्यते ॥ ७ ॥

विकटो नाम विख्यातः कामासुरप्रदाहकः ।

मयूरवाहनश्चायं सौरमात्मधरः स्मृतः ॥ ८ ॥

विघ्नराजावतारश्च शेषवाहन उच्यते ।

ममासुरप्रहन्ता स विष्णुब्रह्मेति वाचकः ॥ ९ ॥

धूम्रवर्णावतारश्चाभिमानासुरनाशकः ।

आखुवाहनतां प्राप्तः शिवात्मकः स उच्यते ॥ १० ॥

एतेऽष्टौ ते मया प्रोक्ता गणेशांशा विनायकाः ।

एषां भजनमात्रेण स्वस्वब्रह्मप्रधारकाः ॥ ११ ॥

स्वानन्दवासकारी स गणेशानः प्रकथ्यते ।

स्वानन्दे योगिभिर्दृष्टो ब्रह्मणि नात्र संशयः ॥ १२ ॥

तस्यावताररूपाश्चाष्टौ विघ्नहरणाः स्मृताः ।

स्वानन्दभजनेनैव लीलास्तत्र भवन्ति हि ॥ १३ ॥

माया तत्र स्वयं लीना भविष्यति सुपुत्रक ।

सम्योगे मौनभावश्च समाधिः प्राप्यते जनैः ॥ १४ ॥

अयोगे गणराजस्य भजने नैव सिद्ध्यति ।

मायाभेदमयं ब्रह्म निर्वृत्तिः प्राप्यते परा ॥ १५ ॥

योगात्मकगणेशानो ब्रह्मणस्पतिवाचकः ।

तत्र शान्तिः समाख्याता योगरूपा जनैः कृता ॥ १६ ॥

नानाशान्तिप्रमोदश्च स्थाने स्थाने प्रकथ्यते ।

शान्तीनां शान्तिरूपा सा योगशान्तिः प्रकीर्तिता ॥ १७ ॥

योगस्य योगतादृष्टा सर्वब्रह्म सुपुत्रक ।

न योगात्परमं ब्रह्म ब्रह्मभूतेन लभ्यते ॥ १८ ॥

एतदेव परं गुह्यं कथितं वत्स तेऽलिखम् ।

भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥ १९ ॥

पुत्रपौत्रादिप्रदं स्तोत्रमिदं शोकविनाशनम् ।

धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥ २० ॥

धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् ।

भक्तिदृढकरं चैव भविष्यति न संशयः ॥ २१ ॥

इति श्रीमुद्गलपुराणे गणेशावतारस्तोत्रं सम्पूर्णम् ।

sri ganesha avatara stotram