Skip to main content
पडताळणी प्रलंबित

श्री दण्डायुधपाण्यष्टकम्

यः पूर्वं शिवशक्तिनामकगिरिद्वन्द्वे हिडिम्बासुरे-

-णानीते फलिनीस्थलान्तरगते कौमारवेषोज्ज्वलः ।

आविर्भूय घटोद्भवाय मुनये भूयो वरान् प्रादिशत्

श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ १ ॥

श्रीमत्पुष्यरथोत्सवेऽन्नमधुदुग्धाद्यैः पदार्थोत्तमैः

नानादेशसमागतैरगणितैर्यः कावडीसम्भृतैः ।

भक्तौघैरभिषेचितो बहुवरांस्तेभ्यो ददात्यादरात्

श्रीदण्डायुधपाणिरात्तकरुणः पायादपायत्स माम् ॥ २ ॥

नानादिग्भ्य उपागता निजमहावेशान्विताः सुन्दरीः

तासामेत्य निशासु यः सुमशरानन्दानुभूतिच्छलात् ।

गोपीनां यदुनाथवन्निजपरानन्दं तनोति स्फुटं

श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ३ ॥

दुष्टानामिह भूतभाविभवतां दुर्मार्गसञ्चारिणां

कष्टाहङ्कृतिजन्यकिल्बिषवशाच्छिष्टप्रविध्वंसिनाम् ।

शिक्षार्थं निजपाणिनोद्वहति यो दण्डाभिधानायुधं

श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ४ ॥

पूर्वं तारकसञ्ज्ञकं दितिसुतं यः शूरपद्मासुरं

सिंहास्यं च निहत्य वासवमुखान् देवान् जुगोपाखिलान् ।

श्रीवल्ल्या सहितश्च निस्तुलयशाः श्रीदेवसेन्या युतः

श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ५ ॥

यस्याङ्गस्थितरोमकूपनिकरे ब्रह्माण्डकोटिच्छटाः

सौधाग्रस्थगवाक्षरन्ध्रविचरत्पीलूपमा एव ताः ।

लक्ष्यन्ते यमिदृग्भिरात्मनि तथाभूतस्वविश्वाकृतिः

श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ६ ॥

सद्योजातमुखैश्च पञ्चवदनैः शम्भोः सहैकं मुखं

पार्वत्या मिलितं विभाति सततं यद्वक्त्रषट्कात्मना ।

तत्तादृक् च्छिवशक्त्यभेदविषयव्यक्त्युज्ज्वलाङ्गं वहन्

श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ७ ॥

सत्यं ज्ञानमनन्तमद्वयमिति श्रुत्यन्तवाक्योदितं

यद्ब्रह्मास्ति तदेव यस्य च विभोर्मूर्तेः स्वरूपं विदुः ।

योगीन्द्रा विमलाशया हृदि निजानन्दानुभूत्युन्नताः

श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ८ ॥

इदं श्रीफलिनीदण्डायुधपाण्यष्टकस्तवम् ।

पठतामाशु सिद्ध्यन्ति निखिलाश्च मनोरथाः ॥ ९ ॥

इति श्रीदण्डायुधपाण्यष्टकम् ।

sri dandayudhapani ashtakam