Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणकाली हृदय स्तोत्रम्

श्रीमहाकाल उवाच ।

महाकौतूहलस्तोत्रं हृदयाख्यं महोत्तमम् ।

शृणु प्रिये महागोप्यं दक्षिणायाः सुगोपितम् ॥ १ ॥

अवाच्यमपि वक्ष्यामि तव प्रीत्या प्रकाशितम् ।

अन्येभ्यः कुरु गोप्यं च सत्यं सत्यं च शैलजे ॥ २ ॥

श्रीदेव्युवाच ।

कस्मिन् युगे समुत्पन्नं केन स्तोत्रं कृतं पुरा ।

तत्सर्वं कथ्यतां शम्भो महेश्वर दयानिधे ॥ ३ ॥

श्रीमहाकाल उवाच ।

पुरा प्रजापतेः शीर्षच्छेदनं कृतवानहम् ।

ब्रह्महत्याकृतैः पापैर्भैरवत्वं ममागतम् ॥ ४ ॥

ब्रह्महत्या विनाशाय कृतं स्तोत्रं मया प्रिये ।

कृत्यारिनाशकं स्तोत्रं ब्रह्महत्यापहारकम् ॥ ५ ॥

अस्य श्री दक्षिणकाली हृदय स्तोत्र मन्त्रस्य श्रीमहाकाल ऋषिः उष्णिक् छन्दः श्रीदक्षिणकालिका देवता क्रीं बीजं ह्रीं शक्तिः नमः कीलकं सर्वपापक्षयार्थे जपे विनियोगः ॥

करन्यासः –

ओं क्रां अङ्गुष्ठाभ्यां नमः ।

ओं क्रीं तर्जनीभ्यां नमः ।

ओं क्रूं मध्यमाभ्यां नमः ।

ओं क्रैं अनामिकाभ्यां नमः ।

ओं क्रौं कनिष्ठिकाभ्यां नमः ।

ओं क्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादि न्यासः –

ओं क्रां हृदयाय नमः ।

ओं क्रीं शिरसे स्वाहा ।

ओं क्रूं शिखायै वषट् ।

ओं क्रैं कवचाय हुम् ।

ओं क्रौं नेत्रत्रयाय वौषट् ।

ओं क्रः अस्त्राय फट् ।

ध्यानम् –

ध्यायेत्कालीं महामायां त्रिनेत्रां बहुरूपिणीम् ।

चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननाम् ॥ १ ॥

नीलोत्पलदलप्रख्यां शत्रुसङ्घविदारिणीम् ।

वर मुण्डं तथा खड्गं मुसलं वरदं तथा ॥ २ ॥

बिभ्राणां रक्तवदनां दंष्ट्रालीं घोररूपिणीम् ।

अट्‍टाट्‍टहासनिरतां सर्वदा च दिगम्बराम् ॥ ३ ॥

शवासनस्थितां देवीं मुण्डमालाविभूषिताम् ।

इति ध्यात्वा महादेवीं ततस्तु हृदयं पठेत् ॥ ४ ॥

अथ हृदय स्तोत्रम् ।

कालिका घोररूपाढ्या सर्वकामफलप्रदा ।

सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॥ ५ ॥

ह्रीं ह्रीं स्वरूपिणी श्रेष्ठा त्रिषुलोकेषु दुर्लभा ।

तव स्नेहान्मयाख्यातं न देयं यस्य कस्यचित् ॥ ६ ॥

अथ ध्यानम् प्रवक्ष्यामि निशामय परात्मिके ।

यस्य विज्ञानमात्रेण जीवन्मुक्तो भविष्यति ॥ ७ ॥

नागयज्ञोपवीतां च चन्द्रार्धकृतशेखराम् ।

जटाजूटां च सञ्चिन्त्य महाकालसमीपगाम् ॥ ८ ॥

एवं न्यासादयः सर्वे ये प्रकुर्वन्ति मानवाः ।

प्राप्नुवन्ति च ते मोक्षं सत्यं सत्यं वरानने ॥ ९ ॥

यन्त्रं शृणु परं देव्याः सर्वाभीष्टप्रदायकम् ।

गोप्याद्गोप्यतरं गोप्यं गोप्याद्गोप्यतरं महत् ॥ १० ॥

त्रिकोणं पञ्चकं चाष्टकमलं भूपुरान्वितम् ।

मुण्डपङ्क्तिं च ज्वालं च कालीयन्त्रं सुसिद्धिदम् ॥ ११ ॥

मन्त्रं तु पूर्वं कथितं धारयस्व सदा प्रिये ।

देव्या दक्षिणकाल्यास्तु नाम मालां निशामय ॥ १२ ॥

काली दक्षिणकाली च कृष्णरूपा परात्मिका ।

मुण्डमाली विशालाक्षी सृष्टिसंहारकारिणी ॥ १३ ॥

स्थितिरूपा महामाया योगनिद्रा भगात्मिका ।

भगसर्पिः पानरता भगध्येया भगाङ्गजा ॥ १४ ॥

आद्या सदा नवा घोरा महातेजाः करालिका ।

प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती ॥ १५ ॥

नामान्येतानि सुभगे ये पठन्ति दिने दिने ।

तेषां दासस्य दासोऽहं सत्यं सत्यं महेश्वरि ॥ १६ ॥

ओम् । कालीं कालहरां देवीं कङ्कालीं बीजरूपिणीम् ।

कालरूपां कलातीतां कालिकां दक्षिणां भजे ॥ १७ ॥

कुण्डगोलप्रियां देवीं स्वयम्भू कुसुमे रताम् ।

रतिप्रियां महारौद्रीं कालिकां प्रणमाम्यहम् ॥ १८ ॥

दूतीप्रियां महादूतीं दूतीयोगेश्वरीं पराम् ।

दूतीयोगोद्भवरतां दूतीरूपां नमाम्यहम् ॥ १९ ॥

क्रीं मन्त्रेण जलं जप्त्वा सप्तधा सेचनेन तु ।

सर्वेरोगाः विनश्यन्ति नात्र कार्या विचारणा ॥ २० ॥

क्रीं स्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः ।

तिलकं क्रियते प्राज्ञैर्लोकोवश्यो भवेत्सदा ॥ २१ ॥

क्रीं हूं ह्रीं मन्त्रजप्तैश्च ह्यक्षतैः सप्तभिः प्रिये ।

महाभयविनाशश्च जायते नात्र संशयः ॥ २२ ॥

क्रीं ह्रीं हूं स्वाहा मन्त्रेण श्मशाने भस्म मन्त्रयेत् ।

शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्भविष्यति ॥ २३ ॥

हूं ह्रीं क्रीं चैव उच्चाटे पुष्पं संशोध्य सप्तधा ।

रिपूणां चैव चोच्चाटं नयत्येव न संशयः ॥ २४ ॥

आकर्षणे च क्रीं क्रीं क्रीं जप्त्वाक्षतान् प्रतिक्षिपेत् ।

सहस्रयोजनस्था च शीघ्रमागच्छति प्रिये ॥ २५ ॥

क्रीं क्रीं क्रीं ह्रूं ह्रूं ह्रीं ह्रीं च कज्जलं शोधितं तथा ।

तिलकेन जगन्मोहः सप्तधा मन्त्रमाचरेत् ॥ २६ ॥

हृदयं परमेशानि सर्वपापहरं परम् ।

अश्वमेधादियज्ञानां कोटि कोटि गुणोत्तरम् ॥ २७ ॥

कन्यादानादि दानानां कोटि कोटिगुणं फलम् ।

दूतीयागादि यागानां कोटि कोटि फलं स्मृतम् ॥ २८ ॥

गङ्गादि सर्वतीर्थानां फलं कोटिगुणं स्मृतम् ।

एकधा पाठमात्रेण सत्यं सत्यं मयोदितम् ॥ २९ ॥

कौमारीस्वेष्टरूपेण पूजां कृत्वा विधानतः ।

पठेत्‍ स्तोत्रं महेशानि जीवन्मुक्तः स उच्यते ॥ ३० ॥

रजस्वलाभगं दृष्ट्वा पठेदेकाग्रमानसः ।

लभते परमं स्थानं देवीलोके वरानने ॥ ३१ ॥

महादुःखे महारोगे महासङ्कटके दिने ।

महाभये महाघोरे पठेत्‍ स्तोत्रं महोत्तमम् ।

सत्यं सत्यं पुनः सत्यं गोपयेन्मातृजारवत् ॥ ३२ ॥

इति महाकौतूहलं नाम श्री दक्षिणकाली हृदय स्तोत्रम् ।

sri kali hrudayam