Skip to main content
पडताळणी प्रलंबित

श्री ललिता स्तोत्रम् (ब्रह्मादि कृतम्)

ब्रह्माद्या ऊचुः ।

नमो नमस्ते जगदेकनाथे

नमो नमः श्रीत्रिपुराभिधाने ।

नमो नमो भण्डमहासुरघ्ने

नमोऽस्तु कामेश्वरि वामकेशि ॥ १ ॥

चिन्तामणे चिन्तितदानदक्षे-

-ऽचिन्त्ये चिदाकारतरङ्गमाले ।

चित्राम्बरे चित्रजगत्प्रसूते

चित्राख्य नित्याभिगते नमस्ते ॥ २ ॥

मोक्षप्रदे मुग्धशशाङ्कचूडे

मुग्धस्मिते मोहविभेददक्षे ।

मुद्रेश्वरीचर्चितराजतन्त्रे

मुद्राप्रिये देवि नमो नमस्ते ॥ ३ ॥

क्रूरान्धकध्वंसिनि कोमलाङ्गे

कोपेषु काली तनुमादधाने ।

क्रोडाननापालित सैन्यचक्रे

क्रोडीकृताशेषदये नमस्ते ॥ ४ ॥

षडङ्गदेवी परिवारगुप्ते

षडङ्गयुक्तश्रुतिवाक्यमृग्ये ।

षट्चक्रसंस्थे च षडूर्मिहन्त्रि

षड्भावरूपे ललिते नमस्ते ॥ ५ ॥

कामेश्वरीमुख्यसमस्तनित्या

कान्तासनान्ते कमलायताक्षि ।

कामप्रदे कामिनि कामशम्भोः

काम्ये कलानामधिपे नमस्ते ॥ ६ ॥

दिव्यौघ सिद्धौघ नरौघरूपे

दिव्ये दिनाधीश सहस्रकान्ते ।

देदीप्यमाने दयया सनाथे

देवादिदेवप्रमदे नमस्ते ॥ ७ ॥

सदाणिमाद्यष्टकसेवनीये

सदाशिवात्मोज्ज्वलमञ्चवासे ।

सौम्ये सदेकायनपादपूज्ये

सवित्रि लोकस्य नमो नमस्ते ॥ ८ ॥

ब्राह्मीमुखैर्मातृगणैर्निषेव्ये

ब्रह्मप्रिये ब्राह्मणबन्धहन्त्रि ।

ब्रह्मामृतस्रोतसि राजहंसि

ब्रह्मेश्वरि श्रीललिते नमस्ते ॥ ९ ॥

सङ्क्षोभिणी मुख्यसमस्तमुद्रा-

-संसेविते संसरणप्रहन्त्रि ।

संसारलीलाकरि सारसाक्षि

सदा नमस्ते ललितेऽधिनाथे ॥ १० ॥

नित्याकलाषोडशकेन कामा-

-कर्षिण्यधिश्रीप्रमथेन सेव्ये ।

नित्ये निरातङ्कदयाप्रपञ्चे

नीलालकश्रेणि नमो नमस्ते ॥ ११ ॥

अनङ्गपुष्पादिभिरुन्नदाभि-

-रनङ्गदेवीभिरजस्रसेव्ये ।

अभव्यहन्त्र्यक्षरराशिरूपे

हतारिवर्गे ललिते नमस्ते ॥ १२ ॥

सङ्क्षोभिणीमुख्यचतुर्दशार्चि-

-र्मालावृतोदार महाप्रदीप्ते ।

आत्मानमाबिभ्रति विभ्रमाढ्ये

शुभ्राश्रये शुद्धपदे नमस्ते ॥ १३ ॥

ससर्वसिद्ध्यादिकशक्तिबृन्द्ये

सर्वज्ञविज्ञातपदारविन्दे ।

सर्वाधिके सर्वगते समस्त-

-सिद्धिप्रदे श्रीललिते नमस्ते ॥ १४ ॥

सर्वज्ञतायुक्प्रथमाभिरन्य-

-देवीभिरप्याश्रित चक्रभूमे ।

सर्वामराकाङ्क्षितपूरयित्रि

सर्वस्य लोकस्य सवित्रि पाहि ॥ १५ ॥

वन्दे वशिन्यादिकवाग्विभूते

वर्धिष्णुचक्रद्युतिवाहवाहे ।

बलाहक श्यामकचे वचोब्धे

वरप्रदे सुन्दरि पाहि विश्वम् ॥ १६ ॥

बाणादिदिव्यायुधसार्वभौमे

भण्डासुरानीकवनान्तदावे ।

अत्युग्रतेजोज्ज्वलिताम्बुराशे

प्रापल्यमाने परितो नमस्ते ॥ १७ ॥

कामेशि वज्रेशि भगेशिरूपे

कल्ये कले कालविलोपदक्षे ।

कथावशेषीकृतदैत्यसैन्ये

कामेशकान्ते कमले नमस्ते ॥ १८ ॥

बिन्दुस्थिते बिन्दुकलैकरूपे

ब्रह्मात्मिके बृंहितचित्प्रकाशे ।

बृहत्कुचाम्भोगविलोलहारे

बृहत्प्रभावे वरदे नमस्ते ॥ १९ ॥

कामेश्वरोत्सङ्गसदानिवासे

कालात्मिके कन्दलितानुकम्पे ।

कल्पावसानोत्थित कालिरूपे

कामप्रदे कल्पलते नमस्ते ॥ २० ॥

सर्वारुणे सान्द्रसुधांशुसीते

सारङ्गशाबाक्षि सरोजवक्त्रे ।

सारस्यसारस्य सदैकभूमे

समस्त विद्येश्वरि सन्नतिस्ते ॥ २१ ॥

इति ब्रह्मादिकृत श्री ललिता स्तोत्रम् ।

sri lalitha stotram brahmaadi krutam