Skip to main content
पडताळणी प्रलंबित

देवी चतुःषष्ट्युपचारपूजा स्तोत्रम्

उषसि मागधमङ्गलगायनै-

-र्झटिति जागृहि जागृहि जागृहि ।

अतिकृपार्द्रकटाक्षनिरीक्षणै-

-र्जगदिदं जगदम्ब सुखीकुरु ॥ १ ॥

कनकमयवितर्दिशोभमानं

दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् ।

मणिमयमण्टपमध्यमेहि मात-

-र्मयि कृपयाशु समर्चनं ग्रहीतुम् ॥ २ ॥

कनककलशशोभमानशीर्षं

जलधरलम्बि समुल्लसत्पताकम् ।

भगवति तव संनिवासहेतो-

-र्मणिमयमन्दिरमेतदर्पयामि ॥ ३ ॥

तपनीयमयी सुतूलिका

कमनीया मृदुलोत्तरच्छदा ।

नवरत्नविभूषिता मया

शिबिकेयं जगदम्ब तेऽर्पिता ॥ ४ ॥

कनकमयवितर्दिस्थापिते तूलिकाढ्ये

विविधकुसुमकीर्णे कोटिबालार्कवर्णे ।

भगवति रमणीये रत्नसिंहासनेऽस्मि-

-न्नुपविश पदयुग्मं हेमपीठे निधाय ॥ ५ ॥

मणिमौक्तिकनिर्मितं महान्तं

कनकस्तम्भचतुष्टयेन युक्तम् ।

कमनीयतमं भवानि तुभ्यं

नवमुल्लोचमहं समर्पयामि ॥ ६ ॥

दूर्वया सरसिजान्वितविष्णु-

-क्रान्तया च सहितं कुसुमाढ्यम् ।

पद्मयुग्मसदृशे पदयुग्मे

पाद्यमेतदुररीकुरु मातः ॥ ७ ॥

गन्धपुष्पयवसर्षपदूर्वा-

-सम्युतं तिलकुशाक्षतमिश्रम् ।

हेमपात्रनिहितं सह रत्नै-

-रर्घ्यमेतदुररीकुरु मातः ॥ ८ ॥

जलजद्युतिना करेण जाती-

-फलतक्कोललवङ्गगन्धयुक्तैः ।

अमृतैरमृतैरिवातिशीतै-

-र्भगवत्याचमनं विधीयताम् ॥ ९ ॥

निहितं कनकस्य सम्पुटे

पिहितं रत्नपिधानकेन यत् ।

तदिदं जगदम्ब तेऽर्पितं

मधुपर्कं जननि प्रगृह्यताम् ॥ १० ॥

एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं

न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतम् ।

सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मया

केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ ११ ॥

मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं

भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः ।

केशानामलकैर्विशोध्य विशदान्कस्तूरिकोदञ्चितैः

स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥ १२ ॥

दधिदुग्धघृतैः समाक्षिकैः

सितया शर्करया समन्वितैः ।

स्नपयामि तवाहमादरा-

-ज्जननि त्वां पुनरुष्णवारिभिः ॥ १३ ॥

एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै-

-र्माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः ।

मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरा-

-त्स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ १४ ॥

बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं

मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।

मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं

तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५ ॥

नवरत्नमये मयार्पिते

कमनीये तपनीयपादुके ।

सविलासमिदं पदद्वयं

कृपया देवि तयोर्निधीयताम् ॥ १६ ॥

बहुभिरगरुधूपैः सादरं धूपयित्वा

भगवति तव केशाङ्कङ्कतैर्मार्जयित्वा ।

सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा

झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ १७ ॥

सौवीराञ्जनमिदमम्ब चक्षुषोस्ते

विन्यस्तं कनकशलाकया मया यत् ।

तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात्

ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥ १८ ॥

मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ

मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले ।

केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा-

-त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ १९ ॥

धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले

मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् ।

मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः

कट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥ २० ॥

मातः फालतले तवातिविमले काश्मीरकस्तूरिका-

-कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः ।

वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं

पादौ चन्दनलेपनादिभिरहं सम्पूजयामि क्रमात् ॥ २१ ॥

रत्नाक्षतैस्त्वां परिपूजयामि

मुक्ताफलैर्वा रुचिरैरविद्धैः ।

अखण्डितैर्देवि यवादिभिर्वा

काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ २२ ॥

जननि चम्पकतैलमिदं पुरो

मृगमदोपयुतं पटवासकम् ।

सुरभिगन्धमिदं च चतुःसमं

सपदि सर्वमिदं परिगृह्यताम् ॥ २३ ॥

सीमन्ते ते भगवति मया सादरं न्यस्तमेत-

-त्सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति ।

बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती-

-रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ २४ ॥

मन्दारकुन्दकरवीरलवङ्गपुष्पै-

-स्त्वां देवि सन्ततमहं परिपूजयामि ।

जातीजपावकुलचम्पककेतकादि-

-नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५ ॥

मालतीवकुलहेमपुष्पिका-

-काञ्चनारकरवीरकैतकैः ।

कर्णिकारगिरिकर्णिकादिभिः

पूजयामि जगदम्ब ते वपुः ॥ २६ ॥

पारिजातशतपत्रपाटलै-

-र्मल्लिकावकुलचम्पकादिभिः ।

अम्बुजैः सुकुसुमैश्च सादरं

पूजयामि जगदम्ब ते वपुः ॥ २७ ॥

लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः

कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः ।

श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि-

-र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ २८ ॥

रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा लोडितै-

-र्दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः ।

आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा

मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ २९ ॥

मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसन्तानिकाः

सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः ।

एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः

शाकैः साकमहं सुधाधिकरसैः सन्तर्पयाम्यर्चयन् ॥ ३० ॥

सापूपसूपदधिदुग्धसिताघृतानि

सुस्वादुभक्तपरमान्नपुरःसराणि ।

शाकोल्लसन्मरिचिजीरकबाह्लिकानि

भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ ३१ ॥

क्षीरमेतदिदमुत्तमोत्तमं

प्राज्यमाज्यमिदमुज्ज्वलं मधु ।

मातरेतदमृतोपमं पयः

सम्भ्रमेण परिपीयतां मुहुः ॥ ३२ ॥

उष्णोदकैः पाणियुगं मुखं च

प्रक्षाल्य मातः कलधौतपात्रे ।

कर्पूरमिश्रेण सकुङ्कुमेन

हस्तौ समुद्वर्तय चन्दनेन ॥ ३३ ॥

अतिशीतमुशीरवासितं

तपनीये कलशे निवेशितम् ।

पटपूतमिदं जितामृतं

शुचि गङ्गाजलमम्ब पीयताम् ॥ ३४ ॥

जम्ब्वाम्ररम्भाफलसम्युतानि

द्राक्षाफलक्षौद्रसमन्वितानि ।

सनारिकेलानि सदाडिमानि

फलानि ते देवि समर्पयामि ॥ ३५ ॥

कूश्माण्डकोशातकिसम्युतानि

जम्बीरनारङ्गसमन्वितानि ।

सबीजपूराणि सबादराणि

फलानि ते देवि समर्पयामि ॥ ३६ ॥

कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः

सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः ।

मातः कैतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः

सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु ॥ ३७ ॥

एलालवङ्गादिसमन्वितानि

तक्कोलकर्पूरविमिश्रितानि ।

ताम्बूलवल्लीदलसम्युतानि

पूगानि ते देवि समर्पयामि ॥ ३८ ॥

ताम्बूलनिर्जितसुतप्तसुवर्णवर्णं

स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् ।

सौवर्णपात्रनिहितं खदिरेन सार्धं

ताम्बूलमम्ब वदनाम्बुरुहे गृहाण ॥ ३९ ॥

महति कनकपात्रे स्थापयित्वा विशालान्

डमरुसदृशरूपान्बद्धगोधूमदीपान् ।

बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा-

-न्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४० ॥

सविनयमथ दत्वा जानुयुग्मं धरण्यां

सपदि शिरसि धृत्वा पात्रमारार्तिकस्य ।

मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं

भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ ४१ ॥

अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य

त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः ।

मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां

जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ ४२ ॥

मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं

नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् ।

भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं

छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥ ४३ ॥

शरदिन्दुमरीचिगौरवर्णै-

-र्मणिमुक्ताविलसत्सुवर्णदण्डैः ।

जगदम्ब विचित्रचामरैस्त्वा-

-महमानन्दभरेण वीजयामि ॥ ४४ ॥

मार्ताण्डमण्डलनिभो जगदम्ब योऽयं

भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते ।

पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय-

-मस्मिन्विलोकय विलोलविलोचने त्वम् ॥ ४५ ॥

इन्द्रादयो नतिनतैर्मकुटप्रदीपै-

-र्नीराजयन्ति सततं तव पादपीठम् ।

तस्मादहं तव समस्तशरीरमेत-

-न्नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६ ॥

प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः

कनकमयविभूषः स्निग्धगम्भीरघोषः ।

भगवति कलितोऽयं वाहनार्थं मया ते

तुरगशतसमेतो वायुवेगस्तुरङ्गः ॥ ४७ ॥

मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः

कनककलितघण्टाकिङ्कणीशोभिकण्ठः ।

श्रवणयुगलचञ्चच्चामरो मेघतुल्यो

जननि तव मुदे स्यान्मत्तमातङ्ग एषः ॥ ४८ ॥

द्रुततरतुरगैर्विराजमानं

मणिमयचक्रचतुष्टयेन युक्तम् ।

कनकमयममुं वितानवन्तं

भगवति ते हि रथं समर्पयामि ॥ ४९ ॥

हयगजरथपत्तिशोभमानं

दिशि दिशि दुन्दुभिमेघनादयुक्तम् ।

अतिबहु चतुरङ्गसैन्यमेत-

-द्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५० ॥

परिघीकृतसप्तसागरं

बहुसम्पत्सहितं मयाम्ब ते विपुलम् ।

प्रबलं धरणीतलाभिधं

दृढदुर्गं निखिलं समर्पयामि ॥ ५१ ॥

शतपत्रयुतैः स्वभावशीतै-

-रतिसौरभ्ययुतैः परागपीतैः ।

भ्रमरीमुखरीकृतैरनन्तै-

-र्व्यजनैस्त्वां जगदम्ब वीजयामि ॥ ५२ ॥

भ्रमरलुलितलोलकुन्तलाली-

-विगलितमाल्यविकीर्णरङ्गभूमिः ।

इयमतिरुचिरा नटी नटन्ती

तव हृदये मुदमातनोतु मातः ॥ ५३ ॥

मुखनयनविलासलोलवेणी-

-विलसितनिर्जितलोलभृङ्गमालाः ।

युवजनसुखकारिचारुलीला

भगवति ते पुरतो नटन्ति बालाः ॥ ५४ ॥

भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः

स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः ।

अनुपमितसुवेषा वारयोषा नटन्ति

परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥ ५५ ॥

डमरुडिण्डिमजर्झरझल्लरी-

-मृदुरवद्रगडद्द्रगडादयः ।

झटिति झाङ्कृतझाङ्कृतझाङ्कृतै-

-र्बहुदयं हृदयं सुखयन्तु ते ॥ ५६ ॥

विपञ्चीषु सप्तस्वरान्वादयन्त्य-

-स्तव द्वारि गायन्ति गन्धर्वकन्याः ।

क्षणं सावधानेन चित्तेन मातः

समाकर्णय त्वं मया प्रार्थितासि ॥ ५७ ॥

अभिनयकमनीयैर्नर्तनैर्नर्तकीनां

क्षणमपि रमयित्वा चेत एतत्त्वदीयम् ।

स्वयमहमतिचित्रैर्नृत्तवादित्रगीतै-

-र्भगवति भवदीयं मानसं रञ्जयामि ॥ ५८ ॥

तव देवि गुणानुवर्णने

चतुरा नो चतुराननादयः ।

तदिहैकमुखेषु जन्तुषु

स्तवनं कस्तव कर्तुमीश्वरः ॥ ५९ ॥

पदे पदे यत्परिपूजकेभ्यः

सद्योऽश्वमेधादिफलं ददाति ।

तत्सर्वपापक्षय हेतुभूतं

प्रदक्षिणं ते परितः करोमि ॥ ६० ॥

रक्तोत्पलारक्तलताप्रभाभ्यां

ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।

अशेषबृन्दारकवन्दिताभ्यां

नमो भवानीपदपङ्कजाभ्याम् ॥ ६१ ॥

चरणनलिनयुग्मं पङ्कजैः पूजयित्वा

कनककमलमालां कण्ठदेशेऽर्पयित्वा ।

शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते

हृदयकमलमध्ये देवि हर्षं तनोतु ॥ ६२ ॥

अथ मणिमयमञ्चकाभिरामे

कनकमयवितानराजमाने ।

प्रसरदगरुधूपधूपितेऽस्मि-

-न्भगवति भवनेऽस्तु ते निवासः ॥ ६३ ॥

एतस्मिन्मणिखचिते सुवर्णपीठे

त्रैलोक्याभयवरदौ निधाय हस्तौ ।

विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि-

-न्पर्यङ्के कनकमये निषीद मातः ॥ ६४ ॥

तव देवि सरोजचिह्नयोः

पदयोर्निर्जितपद्मरागयोः ।

अतिरक्ततरैरलक्तकैः

पुनरुक्तां रचयामि रक्तताम् ॥ ६५ ॥

अथ मातरुशीरवासितं

निजताम्बूलरसेन रञ्जितम् ।

तपनीयमये हि पट्‍टके

मुखगण्डूषजलं विधीयताम् ॥ ६६ ॥

क्षणमथ जगदम्ब मञ्चकेऽस्मि-

-न्मृदुतलतूलिकया विराजमाने ।

अतिरहसि मुदा शिवेन सार्धं

सुखशयनं कुरु तत्र मां स्मरन्ती ॥ ६७ ॥

मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्ता-

-मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।

नानालङ्कारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां

सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥ ६८ ॥

एषा भक्त्या तव विरचिता या मया देवि पूजा

स्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व ।

न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः

सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ६९ ॥

पूजामिमां यः पठति प्रभाते

मध्याह्नकाले यदि वा प्रदोषे ।

धर्मार्थकामान्पुरुषोऽभ्युपैति

देहावसाने शिवभावमेति ॥ ७० ॥

पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः ।

पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति ॥ ७१ ॥

प्रत्यहं भक्तिसम्युक्तो यः पूजनमिदं पठेत् ।

वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् ॥ ७२ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ देवी चतुःषष्ट्युपचारपूजा स्तोत्रम् ।

devi chatushasti upachara puja stotram