Skip to main content
पडताळणी प्रलंबित

श्री शारदा पञ्चरत्न स्तोत्रम्

वारारम्भसमुज्जृम्भरविकोटिसमप्रभा ।

पातु मां वरदा देवी शारदा नारदार्चिता ॥ १ ॥

अपारकाव्यसंसारशृङ्कारालङ्कृताम्बिका ।

पातु मां वरदा देवी शारदा नारदार्चिता ॥ २ ॥

नवपल्लवकामाङ्गकोमला श्यामलाऽमला ।

पातु मां वरदा देवी शारदा नारदार्चिता ॥ ३ ॥

अखण्डलोकसन्दोहमोहशोकविनाशिनी ।

पातु मां वरदा देवी शारदा नारदार्चिता ॥ ४ ॥

वाणी विशारदा माता मनोबुद्धिनियन्त्रिणी ।

पातु मां वरदा देवी शारदा नारदार्चिता ॥ ५ ॥

शारदापञ्चरत्नाख्यं स्तोत्रं नित्यं नु यः पठेत् ।

स प्राप्नोति परां विद्यां शारदायाः प्रसादतः ॥ ६ ॥

इति श्री शारदा पञ्चरत्न स्तोत्रम् ॥

sri sharada pancharatna stotram