Skip to main content
पडताळणी प्रलंबित

षडाननाष्टकम्

अगस्तिरुवाच ।

नमोऽस्तु वृन्दारकवृन्दवन्द्य-

पादारविन्दाय सुधाकराय ।

षडाननायामितविक्रमाय

गौरीहृदानन्दसमुद्भवाय ॥ १ ॥

नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे

कर्त्रे समस्तस्य मनोरथानाम् ।

दात्रे रथानां परतारकस्य

हन्त्रे प्रचण्डासुर तारकस्य ॥ २ ॥

अमूर्तमूर्ताय सहस्रमूर्तये

गुणाय गुण्याय परात्पराय ।

अपारपाराय परापराय

नमोऽस्तु तुभ्यं शिखिवाहनाय ॥ ३ ॥

नमोऽस्तु ते ब्रह्मविदां वराय

दिगम्बरायाम्बर संस्थिताय ।

हिरण्यवर्णाय हिरण्यबाहवे

नमो हिरण्याय हिरण्यरेतसे ॥ ४ ॥

तपःस्वरूपाय तपोधनाय

तपःफलानां प्रतिपादकाय ।

सदा कुमाराय हिमारमारिणे

तृणीकृतैश्वर्य विरागिणे नमः ॥ ५ ॥

नमोऽस्तु तुभ्यं शरजन्मने विभो

प्रभातसूर्यारुणदन्तपङ्क्तये ।

बालाय चाबालपराक्रमाय

षाण्मातुरायालमनातुराय ॥ ६ ॥

मीढुष्टमायोत्तरमीढुषे नमो

नमो गणानां पतये गणाय ।

नमोऽस्तु ते जन्मजरातिगाय

नमो विशाखाय सुशक्तिपाणये ॥ ७ ॥

सर्वस्य नाथस्य कुमारकाय

क्रौञ्चारये तारकमारकाय ।

स्वाहेय गाङ्गेय च कार्तिकेय

शैवेय तुभ्यं सततं नमोऽस्तु ॥ ८ ॥

इति स्कान्दपुराणे काशीखण्डे पञ्चविंशतितमोऽध्याये अगस्त्यप्रोक्तं षडाननाष्टकम् ।

shadanana ashtakam