Skip to main content
पडताळणी प्रलंबित

श्री शिवरामाष्टकम्

शिव हरे शिवरामसखे प्रभो

त्रिविधतापनिवारण हे विभो ।

अजजनेश्वरयादव पाहि मां

शिव हरे विजयं कुरु मे वरम् ॥ १ ॥

कमललोचन राम दयानिधे

हर गुरो गजरक्षक गोपते ।

शिवतनो भवशङ्कर पाहि मां

शिव हरे विजयं कुरु मे वरम् ॥ २ ॥

सुजनरञ्जनमङ्गलमन्दिरं

भजति ते पुरुषः परमं पदम् ।

भवति तस्य सुखं परमाद्भुतं

शिव हरे विजयं कुरु मे वरम् ॥ ३ ॥

जय युधिष्ठिरवल्लभ भूपते

जय जयार्जित पुण्यपयोनिधे ।

जय कृपामय कृष्ण नमोऽस्तु ते

शिव हरे विजयं कुरु मे वरम् ॥ ४ ॥

भवविमोचन माधव मापते

सुकविमानसहंस शिवारते ।

जनकजारत राघव रक्ष मां

शिव हरे विजयं कुरु मे वरम् ॥ ५ ॥

अवनिमण्डलमङ्गल मापते

जलदसुन्दर राम रमापते ।

निगमकीर्तिगुणार्णव गोपते

शिव हरे विजयं कुरु मे वरम् ॥ ६ ॥

पतितपावन नाममयी लता

तव यशो विमलं परिगीयते ।

तदपि माधव मां किमुपेक्षसे

शिव हरे विजयं कुरु मे वरम् ॥ ७ ॥

अमरतापरदेव रमापते

विजयतस्तव नामधनोपमा ।

मयि कथं करुणार्णव जायते

शिव हरे विजयं कुरु मे वरम् ॥ ८ ॥

हनुमतः प्रियचापकर प्रभो

सुरसरिद्धृतशेखर हे गुरो ।

मम विभो किमु विस्मरणं कृतं

शिव हरे विजयं कुरु मे वरम् ॥ ९ ॥

अहरहर्जन रञ्जनसुन्दरं

पठति यः शिवरामकृतस्तवम् ।

विशति रामरमाचरणाम्बुजे

शिव हरे विजयं कुरु मे वरम् ॥ १० ॥

प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः ।

विजयो जायते तस्य विष्णुमाराध्यमाप्नुयात् ॥ ११ ॥

इति श्रीरामानन्दविरचितं श्रीशिवरामस्तोत्रम् ।

sri shiva rama ashtakam