Skip to main content
पडताळणी प्रलंबित

श्री भद्रकाल्यष्टकम् १

घोरे संसारवह्नौ प्रलयमुपगते या हि कृत्वा श्मशाने

नृत्यत्यन्यूनशक्तिर्जगदिदमखिलं मुण्डमालाभिरामा ।

भिद्यद्ब्रह्माण्डभाण्डं पटुतरनिनदैरट्‍टहासैरुदारैः

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ १ ॥

मग्ने लोकेऽम्बुराशौ नलिनभवनुता विष्णुना कारयित्वा

चक्रोत्कृत्तोरुकण्ठं मधुमपि भयदं कैटभं चातिभीमम् ।

पद्मोत्पत्तेः प्रभूतं भयमुत रिपुतोयाहरत्सानुकम्पा

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ २ ॥

विश्वत्राणं विधातुं महिषमथ राणे याऽसुरं भीमरूपं

शूलेनाहत्य वक्षस्यमरपतिनुता पातयन्ती च भूमौ ।

तस्यासृग्वाहिनीभिर्जलनिधिमखिलं शोणिताभं च चक्रे

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ३ ॥

या देवी चण्डमुण्डौ त्रिभुवननलिनीवारणौ देवशत्रू

दृष्ट्वा युद्धोत्सवे तौ द्रुततरमभियातासिना कृत्तकण्ठौ ।

कृत्वा तद्रक्तपानोद्भवमदमुदिता साट्‍टहासातिभीमा

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ४ ॥

सद्यस्तं रक्तबीजं समरभुवि नता घोररूपानसङ्ख्यान्

राक्तोद्भूतैरसङ्ख्यैर्गजतुरगरथैः सार्थमन्यांश्च दैत्यान् ।

वक्त्रे निक्षिप्य दृष्ट्वा गुरुतरदशनैरापपौ शोणितौघं

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ५ ॥

स्थानाद्भ्रष्टैश्च देवैस्तुहिनगिरितटे सङ्गतैः संस्तुता या

सङ्ख्याहीनैः समेतं त्रिदशरिपुगणैः स्यन्दनेभाश्वयुक्तैः ।

युद्धे शुम्भं निशुम्भं त्रिभुवनविपदं नाशयन्ती च जघ्ने

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ६ ॥

शम्भोर्नेत्रानले या जननमपि जगत्त्राणहेतोरयासीत्

भूयस्तीक्ष्णातिधाराविदलितदनुजा दारुकं चापि हत्वा ।

तस्यासृक्पानतुष्टा मुहुरपि कृतवत्यट्‍टहासं कठोरं

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ७ ॥

या देवी कालरात्री तुहिनगिरसुता लोकमाता धरित्री

वाणी निद्रा च माया मनसिजदयिता घोररूपातिसौम्या ।

चामुण्डा खड्गहस्ता रिपुहननपरा शोणितास्वादकामा

सा हन्याद्विश्ववन्द्या मम रिपुनिवहा भद्रदा भद्रकाली ॥ ८ ॥

भद्रकाल्यष्टकं जप्यं शत्रुसङ्क्षयकाङ्क्षिणा ।

स्वर्गापवर्गदं पुण्यं दुष्टग्रहनिवारणम् ॥ ९ ॥

इति श्रीभद्रकाल्यष्टकम् ।

sri bhadrakali ashtakam 1