Skip to main content
पडताळणी प्रलंबित

योगप्रद गणेश स्तोत्रम् (मुद्गल पुराणे)

कपिल उवाच ।

नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे ।

अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १ ॥

आकाशाय च भूतानां मनसे चामरेषु ते ।

बुद्ध्यैरिन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ २ ॥

देहानां बिन्दुरूपाय मोहरूपाय देहिनाम् ।

तयोरभेदभावेषु बोधाय ते नमो नमः ॥ ३ ॥

साङ्ख्याय वै विदेहानां सम्योगानां निजात्मने ।

चतुर्णां पञ्च मायैव सर्वत्र ते नमो नमः ॥ ४ ॥

नामरूपात्मकानां वै शक्तिरूपाय ते नमः ।

आत्मनां रवये तुभ्यं हेरम्बाय नमो नमः ॥ ५ ॥

आनन्दानां महाविष्णुरूपाय नेति धारिणाम् ।

शङ्कराय च सर्वेषां सम्योगे गणपाय ते ॥ ६ ॥

कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम् ।

समेषु समरूपाय लम्बोदर नमोऽस्तु ते ॥ ७ ॥

स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः ।

तेषामभेदभावेषु स्वानन्दाय च ते नमः ॥ ८ ॥

निर्मायिकस्वरूपाणामयोगाय नमो नमः ।

योगानां योगरूपाय गणेशाय नमो नमः ॥ ९ ॥

शान्तियोगप्रदात्रे ते शान्तियोगमयाय च ।

किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥ १० ॥

ततस्तं गणनाथो वै जगाद भक्तमुत्तमम् ।

हर्षेण महता युक्तो हर्षयन्मुनिसत्तम ॥ ११ ॥

श्रीगणेश उवाच ।

त्वया कृतं मदीयं यत् स्तोत्रं योगप्रदं भवेत् ।

धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ १२ ॥

इति श्रीमुद्गलपुराणे योगप्रद गणेश स्तोत्रम् समाप्तम् ।

yogaprada ganesha stotram