Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती नक्षत्रमाला स्तवः

अयि देवि सरस्वति त्वदीयाः

स्तुतिधाराः परिलेढुमुद्यतां नः ।

स्वयमेव तव स्तवं दुहानां

रसनां मातरिमां सनाथयेथाः ॥ १ ॥

अरुणाधरबिम्बमम्बुजाक्षं

करुणावर्षि कटाक्षकेलिलक्षम् ।

वदनं तव हन्त भारति त्व-

-त्पथमुल्लङ्घ्य विशृङ्खलं चकास्ति ॥ २ ॥

अकलङ्कशरच्छशाङ्कलक्षा-

-प्यसदृक्षा तव वाणि वक्त्रभङ्ग्याः ।

अधरः पुनरम्ब पक्वबिम्बी-

-पटलीपाटलिमापवादवीरः ॥ ३ ॥

नवपल्लवदर्पविभ्रमान् वा

शरदम्भोजवनच्छविच्छटां वा ।

परिजेतुमलं भवत्पदश्री-

-रिति वादोऽप्यसदृक्षदिक्षु गण्यः ॥ ४ ॥

तव देवि न केवलं मुखेन्दु-

-र्विकलङ्केषु विशेषलेखनीयः ।

अपि तु स्फुटमङ्घ्रिपङ्कजाग्रे

विहरन्तः सुकृतो नखेन्दवोऽपि ॥ ५ ॥

अणिमा तव हन्त मध्यभागे

महिमानं निरुणद्धि निर्विवादम् ।

परिपाटलिमा च पाणिपादा-

-धरबिम्बे तनुकान्तिपाण्डिमानम् ॥ ६ ॥

अपि मौलिपदे पदं भवत्याः

शशिना हन्त जडेन शान्तमेनः ।

अत एव भवत्पदाब्जसेवा-

-विरही नित्यनिरूढमौग्ध्यकार्श्यः ॥ ७ ॥

अविशङ्कितदोषगन्धवार्तां

विशदाशेषगुणां विचित्रभूषाम् ।

रसपोषविशेषितां विधाता

नयनैस्त्वां श्रवणैर्वयं भजामः ॥ ८ ॥

जननीं रजनीकरावतंसां

जगतां जङ्गमपारिजातवल्लीम् ।

करुणापरिणाहिनेत्रयात्रां

कतिचित् त्वां हृदये वहन्ति धन्याः ॥ ९ ॥

परिमण्डलकान्तिभारनम्रां

त्रिजगन्मङ्गलदीर्घदीपलेशाम् । (दीपलेखाम्)

सुकृतां रसनाञ्चले ज्वलन्तीं

भवतीं चेतसि भावयन्ति धन्याः ॥ १० ॥

भवतीमवतीर्य चित्तवीथ्यां

विहरन्तीं विविधैर्विभूतिभारैः ।

भुवनाद्भुतविभ्रमाभिरामां

पुलकैः कैरपि पूजयन्ति धन्याः ॥ ११ ॥

पतता हृदि हर्षबाष्पमूर्त्या

पयसा त्वामभिषिच्य कोऽपि हृद्याम् ।

पुलकाङ्कुरभूषितां विधत्ते

स्फुटमात्मीयतनूमिवार्द्रचेताः ॥ १२ ॥

मधुरस्मितधौतविश्वविद्या-

-विभवोद्गारिमुखेन्दुसम्पदं त्वाम् ।

परिभावयतां परं मुनीनां

निखिलाचार्यपदानि निर्वहन्ते ॥ १३ ॥

कमलेति भुजान्तरे मुरारे-

-र्गिरिकन्येति शिवस्य वामपार्श्वे ।

परिराजसि भारतीति धातु-

-र्वदनाम्भोजचतुष्पथे त्वमेका ॥ १४ ॥

चतुरेषु चतुर्षु वक्त्रचन्द्रे-

-ष्वधिवासं भवती विधेर्विधत्ताम् ।

वदने पुनरम्ब मादृशानां

किमिदं नृत्यसि नन्वियं कृपा ते ॥ १५ ॥

भवतीं भवतीव्रवेदनार्ताः

परमानन्दपयोधिवीचिमालाम् ।

वचसामधिदेवते वयं ते

मनसा मङ्क्षु विगाह्य धन्यधन्याः ॥ १६ ॥

जगतामधिपत्नि निःसपत्नं

त्वयि चित्तं मम मग्नमस्तु मातः ।

पदयोर्द्वयमद्वयं पदं वा

तव जानन्नपि नाम धन्यधन्याः ॥ १७ ॥

निखिलागमनिर्विवादगीतं

सहजानन्दतरङ्गदन्तुरं ते ।

मनसः कुहरे वयं पदं ते

गगनोल्लङ्घि कथं कथं वहामः ॥ १८ ॥

स्वरसप्रतिभासुरं पदं यत्

सुखसाम्राज्यमनर्गलप्रसारम् ।

अखिलाद्भुतमुज्झितोपमानं

तदहो नन्वसि धीरधीविलेह्यम् ॥ १९ ॥

अतिलङ्घितकालभेदवादं

गलिताशेषदिशाविभागगन्धम् ।

निरवग्रहनिश्चयप्रकाश-

-स्फुटमाधुर्यमसि त्वमम्ब तत्त्वम् ॥ २० ॥

सकलव्यवहारदूरदूरं

सरसं किञ्चिदकिञ्चनोपभोग्यम् ।

हृदयं मदयन्मदीयमुच्चै-

-र्हृषितं हृद्यमिदं पदं ननु त्वम् ॥ २१ ॥

निजयैव कयापि हन्त कान्त्या

दलितध्वान्तपरम्परोपरागम् ।

मधुरिम्णि परं महिम्नि चोच्चै-

-र्विशदं धाम विशृङ्खलं खलु त्वम् ॥ २२ ॥

अपवर्गपदास्पदं पदं य-

-द्यपवर्गः पशुपाशबन्धनानाम् ।

अपतत् तव रूपमद्वितीय-

-क्षममालक्षयतां सतां किल त्वम् ॥ २३ ॥

सहजा तव कापि रूपसम्प-

-द्वचसां वर्त्मनि नैव नैव नैव ।

अपरा पुनरात्तचित्रवेषा

भुवनं पुष्यति भूमिकाविभूतिः ॥ २४ ॥

अथवा कथयेम तं भवत्या

महिमानं महतोऽपि भो महत्याः ।

अपि वाङ्मनसाध्वनि ध्वनन्तीं

कथयेत् कः खलु चिन्तयेच्च तां त्वाम् ॥ २५ ॥

न तदस्ति विनापि यत् त्वया स्या-

-च्चिदचिद्भ्यां प्रविभागभाञ्जि विश्वे ।

तदहो महिमाद्भुतं तवेदं

परमस्मात् पुनरम्ब यासि सासीः ॥ २६ ॥

तदलं पदलङ्घिनि त्वदीये

मुखरीभूय मुहुर्विभूतिपूरे ।

अपि वा विनयोक्तिभिः कृतं ते

शिशुसंलापवशो हि मातृवर्गः ॥ २७ ॥

जय देवि गुणत्रयैकवेषे

जय हे देवि गुणत्रयैकभूषे ।

जय देवि तमःप्रवेशदूरे

जय हे देवि निजप्रकाशधारे ॥ २८ ॥

इति ते स्तुतिमौक्तिकाद्भुतश्रीः

स्वयमग्रन्थत हन्त सन्निधानात् ।

तदियं तव देवि कण्ठभूषा-

-पदवीं प्राप्य कृतार्थतां प्रयातु ॥ २९ ॥

श्रीकृष्णलीलाशुकवाक्सुभिक्षं

नक्षत्रमालेयमभूतपूर्वा ।

कृष्णस्य देवस्य गिरश्च देव्याः

कलाञ्चले वर्षतु हर्षधाराः ॥ ३० ॥

इति कृष्णकेलिशुकवाङ्मयीमिमां

मतिमान् जनः परिचिनोतु जिह्वया ।

उरुचेतसा श्रवणमण्डलेन वा

त्रितयेन वा त्रिभुवनाद्भुतां सुधाम् ॥ ३१ ॥

इति श्रीलीलाशुकमुनि विरचिता श्री सरस्वती नक्षत्रमाला स्तवः ॥

sri saraswati nakshatra mala stava