Skip to main content
पडताळणी प्रलंबित

श्री योगमीनाक्षी स्तोत्रम्

शिवानन्दपीयूषरत्नाकरस्थां

शिवब्रह्मविष्ण्वामरेशाभिवन्द्याम् ।

शिवध्यानलग्नां शिवज्ञानमूर्तिं

शिवाख्यामतीतां भजे पाण्ड्यबालाम् ॥ १ ॥

शिवादिस्फुरत्पञ्चमञ्चाधिरूढां

धनुर्बाणपाशाङ्कुशोद्भासिहस्ताम् ।

नवीनार्कवर्णां नवीनेन्दुचूडां

परब्रह्मपत्नीं भजे पाण्ड्यबालाम् ॥ २ ॥

किरीटाङ्गदोद्भासिमाङ्गल्यसूत्रां

स्फुरन्मेखलाहारताटङ्कभूषाम् ।

परामन्त्रकां पाण्ड्यसिंहासनस्थां

परन्धामरूपां भजे पाण्ड्यबालाम् ॥ ३ ॥

ललामाञ्चितस्निग्धफालेन्दुभागां

लसन्नीरजोत्फुल्लकल्हारसंस्थाम् ।

ललाटेक्षणार्धाङ्गलग्नोज्ज्वलाङ्गीं

परन्धामरूपां भजे पाण्ड्यबालाम् ॥ ४ ॥

त्रिखण्डात्मविद्यां त्रिबिन्दुस्वरूपां

त्रिकोणे लसन्तीं त्रिलोकावनम्राम् ।

त्रिबीजाधिरूढां त्रिमूर्त्यात्मविद्यां

परब्रह्मपत्नीं भजे पाण्ड्यबालाम् ॥ ५ ॥

सदा बिन्दुमध्योल्लसद्वेणिरम्यां

समुत्तुङ्गवक्षोजभारावनम्राम् ।

क्वणन्नूपुरोपेतलाक्षारसार्द्र-

-स्फुरत्पादपद्मां भजे पाण्ड्यबालाम् ॥ ६ ॥

यमाद्यष्टयोगाङ्गरूपामरूपा-

-मकारात्क्षकारान्तवर्णामवर्णाम् ।

अखण्डामनन्यामचिन्त्यामलक्ष्या-

-ममेयात्मविद्यां भजे पाण्ड्यबालाम् ॥ ७ ॥

सुधासागरान्ते मणिद्वीपमध्ये

लसत्कल्पवृक्षोज्ज्वलद्बिन्दुचक्रे ।

महायोगपीठे शिवाकारमञ्चे

सदा सन्निषण्णां भजे पाण्ड्यबालाम् ॥ ८ ॥

सुषुम्नान्तरन्ध्रे सहस्रारपद्मे

रवीन्द्वग्निसम्युक्तचिच्चक्रमध्ये ।

सुधामण्डलस्थे सुनिर्वाणपीठे

सदा सञ्चरन्तीं भजे पाण्ड्यबालाम् ॥ ९ ॥

षडन्ते नवान्ते लसद्द्वादशान्ते

महाबिन्दुमध्ये सुनादान्तराले ।

शिवाख्ये कलातीतनिश्शब्ददेशे

सदा सञ्चरन्तीं भजे पाण्ड्यबालाम् ॥ १० ॥

चतुर्मार्गमध्ये सुकोणान्तरङ्गे

खरन्ध्रे सुधाकारकूपान्तराले ।

निरालम्बपद्मे कलाषोडशान्ते

सदा सञ्चरन्तीं भजे पाण्ड्यबालाम् ॥ ११ ॥

पुटद्वन्द्वनिर्मुक्तवायुप्रलीन-

-प्रकाशान्तराले ध्रुवोपेतरम्ये ।

महाषोडशान्ते मनोनाशदेशे

सदा सञ्चरन्तीं भजे पाण्ड्यबालाम् ॥ १२ ॥

चतुष्पत्रमध्ये सुकोणत्रयान्ते

त्रिमूर्त्याधिवासे त्रिमार्गान्तराले ।

सहस्रारपद्मोचितां चित्प्रकाश-

-प्रवाहप्रलीनां भजे पाण्ड्यबालाम् ॥ १३ ॥

लसद्द्वादशान्तेन्दुपीयूषधारा-

-वृतां मूर्तिमानन्दमग्नान्तरङ्गाम् ।

परां त्रिस्तनीं तां चतुष्कूटमध्ये

परन्धामरूपां भजे पाण्ड्यबालाम् ॥ १४ ॥

सहस्रारपद्मे सुषुम्नान्तमार्गे

स्फुरच्चन्द्रपीयूषधारां पिबन्तीम् ।

सदा स्रावयन्तीं सुधामूर्तिमम्बां

परञ्ज्योतिरूपां भजे पाण्ड्यबालाम् ॥ १५ ॥

नमस्ते सदा पाण्ड्यराजेन्द्रकन्ये

नमस्ते सदा सुन्दरेशाङ्कवासे ।

नमस्ते नमस्ते सुमीनाक्षि देवि

नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ १६ ॥

इति अगस्त्य कृत श्री योगमीनाक्षी स्तोत्रम् ।

sri yoga meenakshi stotram