Skip to main content
पडताळणी प्रलंबित

श्री वल्लभेश करावलम्ब स्तोत्रम्

ओमङ्घ्रिपद्ममकरन्दकुलामृतं ते

नित्यं भजन्ति दिवि यत्सुरसिद्धसङ्घाः ।

ज्ञात्वामृतं च कणशस्तदहं भजामि

श्रीवल्लभेश मम देहि करावलम्बम् ॥ १ ॥

श्रीमातृसूनुमधुना शरणं प्रपद्ये

दारिद्र्यदुःखशमनं कुरु मे गणेश ।

मत्सङ्कटं च सकलं हर विघ्नराज

श्रीवल्लभेश मम देहि करावलम्बम् ॥ २ ॥

गङ्गाधरात्मज विनायक बालमूर्ते

व्याधिं जवेन विनिवारय फालचन्द्र ।

विज्ञानदृष्टिमनिशं मयि सन्निधेहि

श्रीवल्लभेश मम देहि करावलम्बम् ॥ ३ ॥

गण्यं मदीयभवनं च विधाय दृष्ट्या

मद्दारपुत्रतनयान् सहजांश्च सर्वान् ।

आगत्य चाशु परिपालय शूर्पकर्ण

श्रीवल्लभेश मम देहि करावलम्बम् ॥ ४ ॥

णाकारमन्त्रघटितं तव यन्त्रराजं

भक्त्या स्मरामि सततं दिश सम्पदो मे ।

उद्योगसिद्धिमतुलां कवितां च लक्ष्मीं

श्रीवल्लभेश मम देहि करावलम्बम् ॥ ५ ॥

पादादिकेशमखिलं सुधया च पूर्णं

कोशाग्निपञ्चकमिदं शिवभूतबीजम् ।

त्वद्रूपवैभवमहो जनता न वेत्ति

श्रीवल्लभेश मम देहि करावलम्बम् ॥ ६ ॥

तापत्रयं मम हरामृतदृष्टिवृष्ट्या

पापं व्यपोहय गजानन चापदो मे ।

दुष्टं विधातृलिखितं परिमार्जयाशु

श्रीवल्लभेश मम देहि करावलम्बम् ॥ ७ ॥

ये त्वां विदन्ति शिवकल्पतरुं प्रशस्तं

तेभ्यो ददासि कुशलं निखिलार्थलाभम् ।

मह्यं तदैव सकलं दिश वक्रतुण्ड

श्रीवल्लभेश मम देहि करावलम्बम् ॥ ८ ॥

नादान्तवेद्यममलं तव पादपद्मं

नित्यं भजे विबुध षट्पदसेव्यमानम् ।

सत्ताशमाद्यमखिलं दिश मे गणेश

श्रीवल्लभेश मम देहि करावलम्बम् ॥ ९ ॥

मोदामृतेन तव मां स्नपयाशु बालं

पापाब्धिपङ्कलुलितं च सहायहीनम् ।

वस्त्रादिभूषणधनानि च वाहनादीन्

श्रीवल्लभेश मम देहि करावलम्बम् ॥ १० ॥

श्रीवल्लभेशदशकं हठयोगसाध्यं

हेरम्ब ते भगवतीश्वर भृङ्गनादम् ।

शृत्वानिशं श्रुतिविदः कुलयोगिनो ये

भूतिप्रदं भुवि जनाः सुधियो रमन्ताम् ॥ ११ ॥

sri vallabhesha karavalamba stotram