Skip to main content
पडताळणी प्रलंबित

श्री गायत्री अष्टकम् १

विश्वामित्रतपःफलां प्रियतरां विप्रालिसंसेवितां

नित्यानित्यविवेकदां स्मितमुखीं खण्डेन्दुभूषोज्ज्वलाम् ।

ताम्बूलारुणभासमानवदनां मार्ताण्डमध्यस्थितां

गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ १ ॥

जातीपङ्कजकेतकीकुवलयैः सम्पूजिताङ्घ्रिद्वयां

तत्त्वार्थात्मिकवर्णपङ्क्तिसहितां तत्त्वार्थबुद्धिप्रदाम् ।

प्राणायामपरायणैर्बुधजनैः संसेव्यमानां शिवां

गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ २ ॥

मञ्जीरध्वनिभिः समस्तजगतां मञ्जुत्वसंवर्धनीं

विप्रप्रेङ्खितवारिवारितमहारक्षोगणां मृण्मयीम् ।

जप्तुः पापहरां जपासुमनिभां हंसेन संशोभितां

गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ ३ ॥

काञ्चीचेलविभूषितां शिवमयीं मालार्धमालादिका-

-न्बिभ्राणां परमेश्वरीं शरणदां मोहान्धबुद्धिच्छिदाम् ।

भूरादित्रिपुरां त्रिलोकजननीमध्यात्मशाखानुतां

गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ ४ ॥

ध्यातुर्गर्भकृशानुतापहरणां सामात्मिकां सामगां

सायङ्कालसुसेवितां स्वरमयीं दूर्वादलश्यामलाम् ।

मातुर्दास्यविलोचनैकमतिमत्खेटीन्द्रसंराजितां

गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ ५ ॥

सन्ध्यारागविचित्रवस्त्रविलसद्विप्रोत्तमैः सेवितां

ताराहारसुमालिकां सुविलसद्रत्नेन्दुकुम्भान्तराम् ।

राकाचन्द्रमुखीं रमापतिनुतां शङ्खादिभास्वत्करां

गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ ६ ॥

वेणीभूषितमालकध्वनिकरैर्भृङ्गैः सदा शोभितां

तत्त्वज्ञानरसायनज्ञरसनासौधभ्रमद्भ्रामरीम् ।

नासालङ्कृतमौक्तिकेन्दुकिरणैः सायन्तमश्छेदिनीं

गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ ७ ॥

पादाब्जान्तररेणुकुङ्कुमलसत्फालद्युरामावृतां

रम्भानाट्यविलोकनैकरसिकां वेदान्तबुद्धिप्रदाम् ।

वीणावेणुमृदङ्गकाहलरवान् देवैः कृताञ्छृण्वतीं

गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ ८ ॥

हत्यापानसुवर्णतस्करमहागुर्वङ्गनासङ्गमा-

-न्दोषाञ्छैलसमान् पुरन्दरसमाः सञ्च्छिद्य सूर्योपमाः ।

गायत्रीं श्रुतिमातुरेकमनसा सन्ध्यासु ये भूसुरा

जप्त्वा यान्ति परां गतिं मनुमिमं देव्याः परं वैदिकाः ॥ ९ ॥

इति श्रीमच्छङ्कराचार्य विरचितं श्री गायत्र्यष्टकम् ।

gayatri ashtakam in hindi