Skip to main content
पडताळणी प्रलंबित

सप्तमातृका स्तोत्रम्

प्रार्थना ।

ब्रह्माणी कमलेन्दुसौम्यवदना माहेश्वरी लीलया

कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी ।

वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रायुधा

चामुण्डा गणनाथरुद्रसहिता रक्षन्तु नो मातरः ॥

ब्राह्मी –

हंसारूढा प्रकर्तव्या साक्षसूत्रकमण्डलुः ।

स्रुवं च पुस्तकं धत्ते ऊर्ध्वहस्तद्वये शुभा ॥ १ ॥

ब्राह्म्यै नमः ।

माहेश्वरी –

माहेश्वरी प्रकर्तव्या वृषभासनसंस्थिता ।

कपालशूलखट्वाङ्गवरदा च चतुर्भुजा ॥ २ ॥

माहेश्वर्यै नमः ।

कौमारी –

कुमाररूपा कौमारी मयूरवरवाहना ।

रक्तवस्त्रधरा तद्वच्छूलशक्तिगदाधरा ॥ ३ ॥

कौमार्यै नमः ।

वैष्णवी –

वैष्णवी विष्णुसदृशी गरुडोपरि संस्थिता ।

चतुर्बाहुश्च वरदा शङ्खचक्रगदाधरा ॥ ४ ॥

वैष्णव्यै नमः ।

वाराही –

वाराहीं तु प्रवक्ष्यामि महिषोपरि संस्थिताम् ।

वराहसदृशी घण्टानादा चामरधारिणी ॥ ५ ॥

गदाचक्रधरा तद्वद्दानवेन्द्रविघातिनी ।

लोकानां च हितार्थाय सर्वव्याधिविनाशिनी ॥ ६ ॥

वाराह्यै नमः ।

इन्द्राणी –

इन्द्राणी त्विन्द्रसदृशी वज्रशूलगदाधरा ।

गजासनगता देवी लोचनैर्बहुभिर्वृता ॥ ७ ॥

इन्द्राण्यै नमः ।

चामुण्डा –

दंष्ट्राला क्षीणदेहा च गर्ताक्षा भीमरूपिणी ।

दिग्बाहुः क्षामकुक्षिश्च मुसलं चक्रमार्गणौ ॥ ८ ॥

अङ्कुशं बिभ्रती खड्गं दक्षिणेष्वथ वामतः ।

खेटं पाशं धनुर्दण्डं कुठारं चेति बिभ्रती ॥ ९ ॥

चामुण्डा प्रेतगा रक्ता विकृतास्याहिभूषणा ।

द्विभुजा वा प्रकर्तव्या कृत्तिकाकार्यरन्विता ॥ १० ॥

चामुण्डायै नमः ।

इति सप्तमातृका स्तोत्रम् ।

saptha matrika stotram