Skip to main content
पडताळणी प्रलंबित

प्रज्ञाविवर्धन कार्तिकेय स्तोत्रम्

स्कन्द उवाच ।

योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः ।

स्कन्दः कुमारः सेनानीः स्वामी शङ्करसम्भवः ॥ १ ॥

गाङ्गेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः ।

तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः ॥ २ ॥

शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः ।

सनत्कुमारो भगवान् भोगमोक्षफलप्रदः ॥ ३ ॥

शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत् ।

सर्वागमप्रणेता च वाञ्छितार्थप्रदर्शनः ॥ ४ ॥

अष्टाविंशतिनामानि मदीयानीति यः पठेत् ।

प्रत्यूषे श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ॥ ५ ॥

महामन्त्रमयानीति मम नामानुकीर्तनम् ।

महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ॥ ६ ॥

इति श्रीरुद्रयामले प्रज्ञाविवर्धनाख्यं श्रीमत्कार्तिकेयस्तोत्रम् ॥

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri pragnya vivardhana karthikeya stotram in hindi