Skip to main content
पडताळणी प्रलंबित

श्री भुवनेश्वरी पञ्जर स्तोत्रम्

इदं श्री भुवनेश्वर्याः पञ्जरं भुवि दुर्लभम् ।

येन संरक्षितो मर्त्यो बाणैः शस्त्रैर्न बाध्यते ॥ १ ॥

ज्वर मारी पशु व्याघ्र कृत्या चौराद्युपद्रवैः ।

नद्यम्बु धरणी विद्युत्कृशानुभुजगारिभिः ।

सौभाग्यारोग्य सम्पत्ति कीर्ति कान्ति यशोऽर्थदम् ॥ २ ॥

ओं क्रों श्रीं ह्रीं ऐं सौः पूर्वेऽधिष्ठाय मां पाहि चक्रिणि भुवनेश्वरि ।

योगविद्ये महामाये योगिनीगणसेविते ।

कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।

देवि देवि महादेवि मम शत्रून् विनाशय ।

उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।

यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।

त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ १ ॥

ओं क्रों श्रीं ह्रीं ऐं सौः ममाग्नेयां स्थिता पाहि गदिनी भुवनेश्वरि ।

योगविद्ये महामाये योगिनीगणसेविते ।

कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।

देवि देवि महादेवि मम शत्रुन् विनाशय ।

उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।

यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।

त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ २ ॥

ओं क्रों श्रीं ह्रीं ऐं सौः याम्येऽधिष्ठाय मां पाहि शङ्खिनी भुवनेश्वरि ।

योगविद्ये महामाये योगिनीगणसेविते ।

कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।

देव देवि महादेवि मम शत्रुन् विनाशय ।

उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।

यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।

त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ३ ॥

ओं क्रों श्रीं ह्रीं ऐं सौः नैरृत्ये मां स्थिता पाहि खड्गिनी भुवनेश्वरि ।

योगविद्ये महामाये योगिनीगणसेविते ।

कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।

देवि देवि महादेवि मम शत्रुन् विनाशय ।

उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।

यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।

त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ४ ॥

ओं क्रों श्रीं ह्रीं ऐं सौः पश्चिमे मां स्थिता पाहि पाशिनी भुवनेश्वरि ।

योगविद्ये महामाये योगिनीगणसेविते ।

कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।

देवि देवि महादेवि मम शत्रुन् विनाशय ।

उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।

यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।

त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ५ ॥

ओं क्रों श्रीं ह्रीं ऐं सौः वायव्ये मां स्थिता पाहि सक्थिनी भुवनेश्वरि ।

योगविद्ये महामाये योगिनीगणसेविते ।

कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।

देवि देवि महादेवि मम शत्रुन् विनाशय ।

उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।

यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।

त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ६ ॥

ओं क्रों श्रीं ह्रीं ऐं सौः सौम्येऽधिष्ठाय मां पाहि चापिनी भुवनेश्वरि ।

योगविद्ये महामाये योगिनीगणसेविते ।

कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।

देवि देवि महादेवि मम शत्रुन् विनाशय ।

उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।

यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।

त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ७ ॥

ओं क्रों श्रीं ह्रीं ऐं सौः ईशेऽधिष्ठाय मां पाहि शूलिनी भुवनेश्वरि ।

योगविद्ये महामाये योगिनीगणसेविते ।

कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।

देवि देवि महादेवि मम शत्रुन् विनाशय ।

उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।

यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।

त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ८ ॥

ओं क्रों श्रीं ह्रीं ऐं सौः ऊर्ध्वेऽधिष्ठाय मां पाहि पद्मिनी भुवनेश्वरि ।

योगविद्ये महामाये योगिनीगणसेविते ।

कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।

देवि देवि महादेवि मम शत्रुन् विनाशय ।

उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।

यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।

त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ९ ॥

ओं क्रों श्रीं ह्रीं ऐं सौः अधस्तान्मां स्थिता पाहि वाणिनी भुवनेश्वरि ।

योगविद्ये महामाये योगिनीगणसेविते ।

कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।

देवि देवि महादेवि मम शत्रुन् विनाशय ।

उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।

यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।

त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ १० ॥

ओं क्रों श्रीं ह्रीं ऐं सौः अग्रतो मां सदा पाहि साङ्कुशे भुवनेश्वरि ।

योगविद्ये महामाये योगिनीगणसेविते ।

कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।

देवि देवि महादेवि मम शत्रुन् विनाशय ।

उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।

यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।

त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ११ ॥

ओं क्रों श्रीं ह्रीं ऐं सौः पृष्ठतो मां स्थिता पाहि वरदे भुवनेश्वरि ।

योगविद्ये महामाये योगिनीगणसेविते ।

कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।

देवि देवि महादेवि मम शत्रुन् विनाशय ।

उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।

यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।

त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ १२ ॥

सर्वतो मां सदा पाहि सायुधे भुवनेश्वरि ।

योगविद्ये महामाये योगिनीगणसेविते ।

कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।

देवि देवि महादेवि मम शत्रुन् विनाशय ।

उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।

यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।

त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ १३ ॥

फलश्रुतिः ।

प्रोक्ता दिङ्मनवो देवि चतुर्दश शुभप्रदाः ।

एतत् पञ्जरमाख्यातं सर्वरक्षाकरं नृणाम् ॥ १

गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।

न भक्ताय प्रदातव्यं नाशिष्याय कदाचन ॥ २

सिद्धिकामो महादेवि गोपयेन्मातृजारवत् ।

भयकाले होमकाले पूजाकाले विशेषतः ॥ ३

दीपस्यारम्भकाले वै यः कुर्यात् पञ्जरं सुधीः ।

सर्वान् कामानवाप्नोति प्रत्यूहैर्नाभिभूयते ॥ ४

रणे राजकुले द्यूते सर्वत्र विजयी भवेत् ।

कृत्या रोगपिशाचाद्यैर्न कदाचित् प्रबाध्यते ॥ ५

प्रातःकाले च मध्याह्ने सन्ध्यायामर्धरात्रके ।

यः कुर्यात् पञ्जरं मर्त्यो देवीं ध्यात्वा समाहितः ॥ ६

कालमृत्युमपि प्राप्तं जयेदत्र न संशयः ।

ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रं न लगन्ति च ।

पुत्रवान् धनवान्लोके यशस्वी जायते नरः ॥ ७

इति श्रीभुवनेश्वरी पञ्जरस्तोत्रम् सम्पूर्णम् ।

sri bhuvaneshwari panjara stotram