Skip to main content
पडताळणी प्रलंबित

श्री गणाधिप पञ्चरत्नम्

सरागलोकदुर्लभं विरागिलोकपूजितं

सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।

गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चका

नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥ १ ॥

गिरीन्द्रजामुखाम्बुजप्रमोददानभास्करं

करीन्द्रवक्त्रमानताघसङ्घवारणोद्यतम् ।

सरीसृपेशबद्धकुक्षिमाश्रयामि सन्ततं

शरीरकान्तिनिर्जिताब्जबन्धुबालसन्ततिम् ॥ २ ॥

शुकादिमौनिवन्दितं गकारवाच्यमक्षरं

प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये ।

चकासतं चतुर्भुजैर्विकासिपद्मपूजितं

प्रकाशितात्मतत्त्वकं नमाम्यहं गणाधिपम् ॥ ३ ॥

नराधिपत्वदायकं स्वरादिलोकनायकं

ज्वरादिरोगवारकं निराकृतासुरव्रजम् ।

कराम्बुजोल्लसत्सृणिं विकारशून्यमानसैः

हृदा सदा विभावितं मुदा नमामि विघ्नपम् ॥ ४ ॥

श्रमापनोदनक्षमं समाहितान्तरात्मनां

सुमादिभिः सदार्चितं क्षमानिधिं गणाधिपम् ।

रमाधवादिपूजितं यमान्तकात्मसम्भवं

शमादिषड्गुणप्रदं नमाम्यहं विभूतये ॥ ५ ॥

गणाधिपस्य पञ्चकं नृणामभीष्टदायकं

प्रणामपूर्वकं जनाः पठन्ति ये मुदा युताः ।

भवन्ति ते विदां पुरः प्रगीतवैभवा जवा-

-च्चिरायुषोऽधिकश्रियः सुसूनवो न संशयः ॥ ६ ॥

इति श्रीजगद्गुरु श्रीसच्चिदानन्द शिवाभिनव नृसिंह भारती स्वामिभिः विरचितं श्री गणाधिप पञ्चरत्नम् ।

sri ganadhipa pancharatnam