Skip to main content
पडताळणी प्रलंबित

श्री शिवशङ्कर स्तोत्रम्

अतिभीषणकटुभाषणयमकिङ्किरपटली-

-कृतताडनपरिपीडनमरणागमसमये ।

उमया सह मम चेतसि यमशासन निवसन्

शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ १ ॥

असदिन्द्रियविषयोदयसुखसात्कृतसुकृतेः

परदूषणपरिमोक्षण कृतपातकविकृतेः ।

शमनाननभवकानननिरतेर्भव शरणं

शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ २ ॥

विषयाभिधबडिशायुधपिशितायितसुखतो

मकरायितगतिसंसृतिकृतसाहसविपदम् ।

परमालय परिपालय परितापितमनिशं

शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ३ ॥

दयिता मम दुहिता मम जननी मम जनको

मम कल्पितमतिसन्ततिमरुभूमिषु निरतम् ।

गिरिजासख जनितासुखवसतिं कुरु सुखिनं

शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ४ ॥

जनिनाशन मृतिमोचन शिवपूजननिरतेः

अभितोऽदृशमिदमीदृशमहमावह इति हा ।

गजकच्छपजनितश्रम विमलीकुरु सुमतिं

शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ५ ॥

त्वयि तिष्ठति सकलस्थितिकरुणात्मनि हृदये

वसुमार्गणकृपणेक्षणमनसा शिवविमुखम् ।

अकृताह्निकमसुपोषकमवताद्गिरिसुतया

शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ६ ॥

पितराविति सुखदाविति शिशुना कृतहृदयौ

शिवया हृतभयके हृदि जनितं तव सुकृतम् ।

इति मे शिव हृदयं भव भवतात्तव दयया

शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ७ ॥

शरणागतभरणाश्रित करुणामृतजलधे

शरणं तव चरणौ शिव मम संसृतिवसतेः ।

परिचिन्मय जगदामयभिषजे नतिरवतात्

शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ८ ॥

विविधाधिभिरतिभीतिभिरकृताधिकसुकृतं

शतकोटिषु नरकादिषु हतपातकविवशम् ।

मृड मामव सुकृतीभव शिवया सह कृपया

शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ९ ॥

कलिनाशन गरलाशन कमलासनविनुत

कमलापतिनयनार्चित करुणाकृतिचरण ।

करुणाकर मुनिसेवित भवसागरहरण

शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ १० ॥

विजितेन्द्रियविबुधार्चित विमलाम्बुजचरण

भवनाशन भयनाशन भजिताङ्गितहृदय ।

फणिभूषण मुनिवेषण मदनान्तक शरणं

शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ ११ ॥

त्रिपुरान्तक त्रिदशेश्वर त्रिगुणात्मक शम्भो

वृषवाहन विषदूषण पतितोद्धर शरणम् ।

कनकासन कनकाम्बर कलिनाशन शरणं

शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥ १२ ॥

इति श्रीशिवशङ्करस्तोत्रम् ॥

sri shiva shankara stotram