Skip to main content
पडताळणी प्रलंबित

श्री बाला विंशति स्तवः

ऐन्द्रस्येव शरासनस्य दधती मध्येललाटं प्रभां

शौक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः ।

एषाऽसौ त्रिपुरा हृदि द्युतिरिवोष्णांशोः सदाहः स्थिता

छिद्यान्नः सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ॥ १ ॥

या मात्रा त्रपुषीलतातनुलसत्तन्तुस्थितिस्पर्धिनी

वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् ।

शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमां

ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नराः ॥ २ ॥

दृष्ट्वा सम्भ्रमकारि वस्तु सहसा ऐ ऐ इति व्याहृतं

येनाकूतवशादपीह वरदे बिन्दुं विनाप्यक्षरम् ।

तस्यापि ध्रुवमेव देवि तरसा जाते तवानुग्रहे

वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्राम्बुजात् ॥ ३ ॥

यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं

तत्सारस्वतमित्यवैति विरलः कश्चिद्बुधश्चेद्भुवि ।

आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः

प्रारम्भे प्रणवास्पदप्रणयिनीं नीत्वोच्चरन्ति स्फुटम् ॥ ४ ॥

यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधैः

तार्तीयं तदहं नमामि मनसा त्वद्बीजमिन्दुप्रभम् ।

अस्त्वौर्वोऽपि सरस्वतीमनुगतो जाड्याम्बुविच्छित्तये

गौः शब्दो गिरि वर्तते सुनियतं योगं विना सिद्धिदः ॥ ५ ॥

एकैकं तव देवि बीजमनघं सव्यञ्जनाव्यञ्जनं

कूटस्थं यदि वा पृथक्क्रमगतं यद्वा स्थितं व्युत्क्रमात् ।

यं यं काममपेक्ष्य येन विधिना केनापि वा चिन्तितं

जप्तं वा सफलीकरोति तरसा तं तं समस्तं नृणाम् ॥ ६ ॥

वामे पुस्तकधारिणीमभयदां साक्षस्रजं दक्षिणे

भक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्ज्वलाम् ।

उज्जृम्भाम्बुजपत्रकान्तिनयनस्निग्धप्रभाऽऽलोकिनीं

ये त्वामम्ब न शीलयन्ति मनसा तेषां कवित्वं कुतः ॥ ७ ॥

ये त्वां पाण्डरपुण्डरीकपटलस्पष्टाभिरामप्रभां

सिञ्चन्तीममृतद्रवैरिव शिरो ध्यायन्ति मूर्ध्नि स्थिताम् ।

अश्रान्तं विकचस्फुटाक्षरपदा निर्याति वक्त्राम्बुजात्

तेषां भारति भारती सुरसरित्कल्लोललोलोर्मिवत् ॥ ८ ॥

ये सिन्दूरपरागपुञ्जपिहितां त्वत्तेजसा द्यामिमां

उर्वीं चापि विलीनयावकरसप्रस्तारमग्नामिव ।

पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वर-

-क्लान्तास्त्रस्तकुरङ्गशावकदृशो वश्या भवन्ति स्त्रियः ॥ ९ ॥

चञ्चत्काञ्चनकुण्डलाङ्गदधरामाबद्धकाञ्चीस्रजं

ये त्वां चेतसि तद्गते क्षणमपि ध्यायन्ति कृत्वा स्थिराम् ।

तेषां वेश्मसु विभ्रमादहरहः स्फारीभवन्त्यश्चिरम् ।

माद्यत्कुञ्जरकर्णतालतरलाः स्थैर्यं भजन्ते श्रियः ॥ १० ॥

आर्भट्या शशिखण्डमण्डितजटाजूटां नृमुण्डस्रजं

बन्धूकप्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् ।

त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीनतुङ्गस्तनीं

मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसांवेत्तये ॥ ११ ॥

जातोऽप्यल्पपरिच्छदे क्षितिभुजां सामान्यमात्रे कुले

निश्शेषावनिचक्रवर्तिपदवीं लब्ध्वा प्रतापोन्नतः ।

यद्विद्याधरवृन्दवन्दितपदः श्रीवत्सराजोऽभव-

-देवि त्वच्चरणाम्बुजप्रणतिजः सोऽयं प्रसादोदयः ॥ १२ ॥

चण्डि त्वच्चरणाम्बुजार्चनकृते बिल्वीदलोल्लुण्ठन –

-त्रुट्यत्कण्टककोटिभिः परिचयं येषां न जग्मुः कराः ।

ते दण्डाङ्कुशचक्रचापकुलिश श्रीवत्समत्स्याङ्कितैः

जायन्ते पृथिवीभुजः कथमिवाम्भोजप्रभैः पाणिभिः ॥ १३ ॥

विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैः ।

त्वां देवि त्रिपुरे परापरकलां सन्तर्प्य पूजाविधौ ।

यां यां प्रार्थयते मनः स्थिरधियां तेषां त एव ध्रुवं

तां तां सिद्धिमवाप्नुवन्ति तरसा विघ्नैरविघ्नीकृताः ॥ १४ ॥

शब्दानां जननी त्वमत्र भुवने वाग्वादिनीत्युच्यसे

त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति ध्रुवम् ।

लीयन्ते खलु यत्र कल्पविरमे ब्रह्मादयस्तेऽप्यमी

सा त्वं काचिदचिन्त्यरूपमहिमा शक्तिः परा गीयसे ॥ १५ ॥

देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वराः

त्रैलोक्यं त्रिपदी त्रिपुष्करमथो त्रिब्रह्म वर्णास्त्रयः ।

यत्किञ्चिज्जगति त्रिधा नियमितं वस्तु त्रिवर्गादिकं

तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥ १६ ॥

लक्ष्मीं राजकुले जयां रणमुखे क्षेमङ्करीमध्वनि

क्रव्यादद्विपसर्पभाजि शबरीं कान्तारदुर्गे गिरौ ।

भूतप्रेतपिशाचजम्भकभये स्मृत्वा महाभैरवीं

व्यामोहे त्रिपुरां तरन्ति विपदस्ताराञ्च तोयप्लवे ॥ १७ ॥

माया कुण्डलिनी क्रिया मधुमती काली कलामालिनी

मातङ्गी विजया जया भगवती देवी शिवा शाम्भवी ।

शक्तिः शङ्करवल्लभा त्रिनयना वाग्वादिनी भैरवी

ह्रीङ्कारी त्रिपुरा परापरमयी माता कुमारीत्यसि ॥ १८ ॥

आईपल्लवितैः परस्परयुतैर्द्विद्विक्रमादक्षरैः

काद्यैः क्षान्तगतैः स्वरादिभिरथ क्षान्तैश्च तैः सस्वरैः ।

नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगुह्यानि ते

तेभ्यो भैरवपत्नि विंशतिसहस्रेभ्यः परेभ्यो नमः ॥ १९ ॥

बोद्धव्या निपुणं बुधैः स्तुतिरियं कृत्वा मनस्तद्गतं

भारत्यास्त्रिपुरेत्यनन्यमनसो यत्राद्यवृत्ते स्फुटम् ।

एकद्वित्रिपदक्रमेण कथितस्तत्पादसङ्ख्याक्षरैः

मन्त्रोद्धारविधिर्विशेषसहितः सत्सम्प्रदायान्वितः ॥ २० ॥

सावद्यं निरवद्यमस्तु यदि वा किं वानया चिन्तया

नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि ।

सञ्चिन्त्यापि लघुत्वमात्मनि दृढं सञ्जायमानं हठात्

त्वद्भक्त्या मुखरीकृतेन रचितं यस्मान्मयापि ध्रुवम् ॥ २१ ॥

इति कालिदासविरचितः श्री बाला विंशति स्तवः ।

sri bala vimsathi stava