Skip to main content
पडताळणी प्रलंबित

श्री गणपति गकार अष्टोत्तरशतनाम स्तोत्रम्

श्री गणपति गकाराष्टोत्तरशतनामावली >>

ओं गकाररूपो गम्बीजो गणेशो गणवन्दितः ।

गणनीयो गणो गण्यो गणनातीतसद्गुणः ॥ १ ॥

गगनादिकसृद्गङ्गासुतो गङ्गासुतार्चितः ।

गङ्गाधरप्रीतिकरो गवीशेड्यो गदापहः ॥ २ ॥

गदाधरनुतो गद्यपद्यात्मककवित्वदः ।

गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥ ३ ॥

गञ्जानिरतशिक्षाकृद्गणितज्ञो गणोत्तमः ।

गण्डदानाञ्चितो गन्ता गण्डोपलसमाकृतिः ॥ ४ ॥

गगनव्यापको गम्यो गमानादिविवर्जितः ।

गण्डदोषहरो गण्डभ्रमद्भ्रमरकुण्डलः ॥ ५ ॥

गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः ।

गन्धप्रियो गन्धवाहो गन्धसिन्दुरबृन्दगः ॥ ६ ॥

गन्धादिपूजितो गव्यभोक्ता गर्गादिसन्नुतः ।

गरिष्ठो गरभिद्गर्वहरो गरलिभूषणः ॥ ७ ॥

गविष्ठो गर्जितारावो गभीरहृदयो गदी ।

गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः ॥ ८ ॥

गर्भाधारो गर्भवासिशिशुज्ञानप्रदायकः ।

गरुत्मत्तुल्यजवनो गरुडध्वजवन्दितः ॥ ९ ॥

गयेडितो गयाश्राद्धफलदश्च गयाकृतिः ।

गदाधरावतारी च गन्धर्वनगरार्चितः ॥ १० ॥

गन्धर्वगानसन्तुष्टो गरुडाग्रजवन्दितः ।

गणरात्रसमाराध्यो गर्हणस्तुतिसाम्यधीः ॥ ११ ॥

गर्ताभनाभिर्गव्यूतिः दीर्घतुण्डो गभस्तिमान् ।

गर्हिताचारदूरश्च गरुडोपलभूषितः ॥ १२ ॥

गजारिविक्रमो गन्धमूषवाजी गतश्रमः ।

गवेषणीयो गहनो गहनस्थमुनिस्तुतः ॥ १३ ॥

गवयच्छिद्गण्डकभिद्गह्वरापथवारणः ।

गजदन्तायुधो गर्जद्रिपुघ्नो गजकर्णिकः ॥ १४ ॥

गजचर्मामयच्छेत्ता गणाध्यक्षो गणार्चितः ।

गणिकानर्तनप्रीतो गच्छन्गन्धफलीप्रियः ॥ १५ ॥

गन्धकादिरसाधीशो गणकानन्ददायकः ।

गरभादिजनुर्हर्ता गण्डकीगाहनोत्सुकः ॥ १६ ॥

गण्डूषीकृतवाराशिः गरिमालघिमादिदः ।

गवाक्षवत्सौधवासी गर्भितो गर्भिणीनुतः ॥ १७ ॥

गन्धमादनशैलाभो गण्डभेरुण्डविक्रमः ।

गदितो गद्गदारावसंस्तुतो गह्वरीपतिः ॥ १८ ॥

गजेशाय गरीयसे गद्येड्यो गतभीर्गदितागमः ।

गर्हणीयगुणाभावो गङ्गादिकशुचिप्रदः ॥ १९ ॥

गणनातीतविद्याश्रीबलायुष्यादिदायकः ।

एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् ॥ २० ॥

पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् ।

पूजान्ते यः पठेन्नित्यं प्रीतस्सन् तस्यविघ्नराट् ॥ २१ ॥

यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति ।

दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् ॥ २२ ॥

एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि ।

तस्य प्रसन्नो विघ्नेशस्सर्वान् कामान् प्रयच्छति ॥ २३ ॥

इति श्री गणपति गकाराष्टोत्तरशतनामस्तोत्रम् ।

sri ganapati gakara ashtottara shatanama stotram