Skip to main content
पडताळणी प्रलंबित

श्री ललिता स्तवराजः (विश्वरूप स्तोत्रम्)

देवा ऊचुः ।

जय देवि जगन्मातर्जय देवि परात्परे ।

जय कल्याणनिलये जय कामकलात्मिके ॥ १ ॥

जयकारि च वामाक्षि जय कामाक्षि सुन्दरि ।

जयाखिलसुराराध्ये जय कामेशि मानदे ॥ २ ॥

जय ब्रह्ममये देवि ब्रह्मात्मकरसात्मिके ।

जय नारायणि परे नन्दिताशेषविष्टपे ॥ ३ ॥

जय श्रीकण्ठदयिते जय श्रीललितेम्बिके ।

जय श्रीविजये देवि विजयश्रीसमृद्धिदे ॥ ४ ॥

जातस्य जायमानस्य इष्टापूर्तस्य हेतवे ।

नमस्तस्यै त्रिजगतां पालयित्र्यै परात्परे ॥ ५ ॥

कलामुहूर्तकाष्ठाहर्मासर्तुशरदात्मने ।

नमः सहस्रशीर्षायै सहस्रमुखलोचने ॥ ६ ॥

नमः सहस्रहस्ताब्जपादपङ्कजशोभिते ।

अणोरणुतरे देवि महतोऽपि महीयसि ॥ ७ ॥

परात्परतरे मातस्तेजस्तेजीयसामपि ।

अतलं तु भवेत्पादौ वितलं जानुनी तव ॥ ८ ॥

रसातलं कटीदेशः कुक्षिस्ते धरणी भवेत् ।

हृदयं तु भुवर्लोकः स्वस्ते मुखमुदाहृतम् ॥ ९ ॥

दृशश्चन्द्रार्कदहना दिशस्ते बाहवोम्बिके ।

मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयोऽखिलाः ॥ १० ॥

क्रीडा ते लोकरचना सखा ते चिन्मयः शिवः ।

आहारस्ते सदानन्दो वासस्ते हृदये सताम् ॥ ११ ॥

दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते ।

शिरोरुहा घनास्ते तु तारकाः कुसुमानि ते ॥ १२ ॥

धर्माद्या बाहवस्ते स्युरधर्माद्यायुधानि ते ।

यमाश्च नियमाश्चैव करपादरुहास्तथा ॥ १३ ॥

स्तनौ स्वाहास्वधाकारौ लोकोज्जीवनकारकौ ।

प्राणायामस्तु ते नासा रसना ते सरस्वती ॥ १४ ॥

प्रत्याहारस्त्विन्द्रियाणि ध्यानम् ते धीस्तु सत्तमा ।

मनस्ते धारणाशक्तिर्हृदयं ते समाधिकः ॥ १५ ॥

महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव ।

भूतं भव्यं भविष्यच्च नित्यं च तव विग्रहः ॥ १६ ॥

यज्ञरूपा जगद्धात्री विष्वग्रूपा च पावनी ।

आदौ या तु दया भूता ससर्ज निखिलाः प्रजाः ॥ १७ ॥

हृदयस्थापि लोकानामदृश्या मोहनात्मिका ।

नामरूपविभागं च या करोति स्वलीलया ॥ १८ ॥

तान्यधिष्ठाय तिष्ठन्ति तेष्वसक्तार्थकामदा ।

नमस्तस्यै महादेव्यै सर्वशक्त्यै नमो नमः ॥ १९ ॥

यदाज्ञया प्रवर्तन्ते वह्निसूर्येन्दुमारुताः ।

पृथिव्यादीनि भूतानि तस्यै देव्यै नमो नमः ॥ २० ॥

या ससर्जादिधातारं सर्गादावादिभूरिदम् ।

दधार स्वयमेवैका तस्यै देव्यै नमो नमः ॥ २१ ॥

यथा धृता तु धरणी ययाकाशममेयया ।

यस्यामुदेति सविता तस्यै देव्यै नमो नमः ॥ २२ ॥

यत्रोदेति जगत्कृत्स्नं यत्र तिष्ठति निर्भरम् ।

यत्रान्तमेति काले तु तस्यै देव्यै नमो नमः ॥ २३ ॥

नमो नमस्ते रजसे भवायै

नमो नमः सात्त्विकसंस्थितायै ।

नमो नमस्ते तमसे हरायै

नमो नमो निर्गुणतः शिवायै ॥ २४ ॥

नमो नमस्ते जगदेकमात्रे

नमो नमस्ते जगदेकपित्रे ।

नमो नमस्तेऽखिलरूपतन्त्रे

नमो नमस्तेऽखिलयन्त्ररूपे ॥ २५ ॥

नमो नमो लोकगुरुप्रधाने

नमो नमस्तेऽखिलवाग्विभूत्यै ।

नमोऽस्तु लक्ष्म्यै जगदेकतुष्ट्यै

नमो नमः शाम्भवि सर्वशक्त्यै ॥ २६ ॥

अनादिमध्यान्तमपाञ्चभौतिकं

ह्यवाङ्मनोगम्यमतर्क्यवैभवम् ।

अरूपमद्वन्द्वमदृष्टिगोचरं

प्रभावमग्र्यं कथमम्ब वर्ण्यते ॥ २७ ॥

प्रसीद विश्वेश्वरि विश्ववन्दिते

प्रसीद विद्येश्वरि वेदरूपिणि ।

प्रसीद मायामयि मन्त्रविग्रहे

प्रसीद सर्वेश्वरि सर्वरूपिणि ॥ २८ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने त्रयोदशोऽध्याये विश्वरूप स्तोत्रं नाम श्री ललिता स्तवराजः ॥

sri lalitha stavaraja stotram