Skip to main content
पडताळणी प्रलंबित

श्री लक्ष्मी स्तोत्रम् (सर्वदेव कृतम्)

देवा ऊचुः ।

क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे ।

शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥ १ ॥

उपमे सर्वसाध्वीनां देवीनां देवपूजिते ।

त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ॥ २ ॥

सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणि ।

रासेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः ॥ ३ ॥

कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका ।

स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले ॥ ४ ॥

वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती ।

गङ्गा च तुलसी त्वं च सावित्री ब्रह्मलोकतः ॥ ५ ॥

कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् ।

रासे रासेश्वरी त्वं च बृन्दावन वने वने ॥ ६ ॥

कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने ।

विरजा चम्पकवने शतशृङ्गे च सुन्दरी ॥ ७ ॥

पद्मावती पद्मवने मालती मालतीवने ।

कुन्ददन्ती कुन्दवने सुशीला केतकीवने ॥ ८ ॥

कदम्बमाला त्वं देवि कदम्बकाननेऽपि च ।

राजलक्ष्मीः राजगृहे गृहलक्ष्मीर्गृहे गृहे ॥ ९ ॥

इत्युक्त्वा देवताः सर्वाः मुनयो मनवस्तथा ।

रुरुदुर्नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः ॥ १० ॥

इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् ।

यः पठेत्प्रातरुत्थाय स वै सर्वं लभेद्ध्रुवम् ॥ ११ ॥

अभार्यो लभते भार्यां विनीतां सुसुतां सतीम् ।

सुशीलां सुन्दरीं रम्यामतिसुप्रियवादिनीम् ॥ १२ ॥

पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् ।

अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम् ॥ १३ ॥

परमैश्वर्ययुक्तं च विद्यावन्तं यशस्विनम् ।

भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥ १४ ॥

हतबन्धुर्लभेद्बन्धुं धनभ्रष्टो धनं लभेत् ।

कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठां च लभेद्ध्रुवम् ॥ १५ ॥

सर्वमङ्गलदं स्तोत्रं शोकसन्तापनाशनम् ।

हर्षानन्दकरं शश्वद्धर्ममोक्षसुहृत्प्रदम् ॥ १६ ॥

इति सर्वदेवकृत श्रीलक्ष्मी स्तोत्रम् ।

sri lakshmi stotram sarva deva kritam in hindi