Skip to main content
पडताळणी प्रलंबित

श्री काली स्तुतिः (ब्रह्म कृतम्)

नमामि कृष्णरूपिणीं कृष्णाङ्गयष्टिधारिणीम् ।

समग्रतत्त्वसागरं अपारपारगह्वराम् ॥ १ ॥

शिवाप्रभां समुज्ज्वलां स्फुरच्छशाङ्कशेखराम् ।

ललाटरत्नभास्करां जगत्प्रदीप्तिभास्कराम् ॥ २ ॥

महेन्द्रकश्यपार्चितां सनत्कुमारसंस्तुताम् ।

सुरासुरेन्द्रवन्दितां यथार्थनिर्मलाद्भुताम् ॥ ३ ॥

अतर्क्यरोचिरूर्जितां विकारदोषवर्जिताम् ।

मुमुक्षुभिर्विचिन्तितां विशेषतत्त्वसूचिताम् ॥ ४ ॥

मृतास्थिनिर्मितस्रजां मृगेन्द्रवाहनाग्रजाम् ।

सुशुद्धतत्त्वतोषणां त्रिवेदपारभूषणाम् ॥ ५ ॥

भुजङ्गहारहारिणीं कपालखण्डधारिणीम् ।

सुधार्मिकौपकारिणीं सुरेन्द्रवैरिघातिनीम् ॥ ६ ॥

कुठारपाशचापिनीं कृतान्तकामभेदिनीम् ।

शुभां कपालमालिनीं सुवर्णकल्पशाखिनीम् ॥ ७ ॥

श्मशानभूमिवासिनीं द्विजेन्द्रमौलिभाविनीम् ।

तमोऽन्धकारयामिनीं शिवस्वभावकामिनीम् ॥ ८ ॥

सहस्रसूर्यराजिकां धनञ्जयोग्रकारिकाम् ।

सुशुद्धकालकन्दलां सुभृङ्गबृन्दमञ्जुलाम् ॥ ९ ॥

प्रजायिनीं प्रजावतीं नमामि मातरं सतीम् ।

स्वकर्मकारणे गतिं हरप्रियां च पार्वतीम् ॥ १० ॥

अनन्तशक्तिकान्तिदां यशोऽर्थभुक्तिमुक्तिदाम् ।

पुनः पुनर्जगद्धितां नमाम्यहं सुरार्चिताम् ॥ ११ ॥

जयेश्वरि त्रिलोचने प्रसीद देवि पाहि माम् ।

जयन्ति ते स्तुवन्ति ये शुभं लभन्त्यमोक्षतः ॥ १२ ॥

सदैव ते हतद्विषः परं भवन्ति सज्जुषः ।

जराः परे शिवेऽधुना प्रसाधि मां करोमि किम् ॥ १३ ॥

अतीव मोहितात्मनो वृथा विचेष्टितस्य मे ।

कुरु प्रसादितं मनो यथास्मि जन्मभञ्जनः ॥ १४ ॥

तथा भवन्तु तावका यथैव घोषितालकाः ।

इमां स्तुतिं ममेरितां पठन्ति कालिसाधकाः ।

न ते पुनः सुदुस्तरे पतन्ति मोहगह्वरे ॥ १५ ॥

इति कालीरहस्ये ब्रह्म कृत श्री काली स्तुतिः ॥

sri kali stuti brahma krutam