Skip to main content
पडताळणी प्रलंबित

श्री बालात्रिपुरसुन्दर्यष्टोत्तरशतनाम स्तोत्रम्

अस्य श्री बालात्रिपुरसुन्दर्यष्टोत्तरशतनाम स्तोत्रमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः, अनुष्टुप् छन्दः, श्रीबालात्रिपुरसुन्दरी देवता, ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, श्रीबालात्रिपुरसुन्दरी प्रसादसिद्ध्यर्थे नामपारायणे विनियोगः ।

न्यासः – ओं ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः । ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट् । ऐं कवचाय हुम् । क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् ।

पाशाङ्कुशे पुस्तकाक्षसूत्रे च दधती करैः ।

रक्ता त्र्यक्षा चन्द्रफाला पातु बाला सुरार्चिता ॥

लमित्यादि पञ्चपूजा ।

लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।

हं आकाशात्मिकायै पुष्पाणि समर्पयामि ।

यं वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं अग्न्यात्मिकायै दीपं दर्शयामि ।

वं अमृतात्मिकायै अमृतोपहारं निवेदयामि ।

सं सर्वात्मिकायै सर्वोपचारपूजाः समर्पयामि ॥

स्तोत्रम् ।

कल्याणी त्रिपुरा बाला माया त्रिपुरसुन्दरी ।

सुन्दरी सौभाग्यवती क्लीङ्कारी सर्वमङ्गला ॥ १ ॥

ह्रीं‍कारी स्कन्दजननी परा पञ्चदशाक्षरी ।

त्रिलोकी मोहनाधीशा सर्वेशी सर्वरूपिणी ॥ २ ॥

सर्वसङ्क्षोभिणी पूर्णा नवमुद्रेश्वरी शिवा ।

अनङ्गकुसुमा ख्याता ह्यनङ्गभुवनेश्वरी ॥ ३ ॥

जप्या स्तव्या श्रुतिर्नित्या नित्यक्लिन्नाऽमृतोद्भवा ।

मोहिनी परमानन्दा कामेशी तरुणी कला ॥ ४ ॥

कलावती भगवती पद्मरागकिरीटिनी ।

सौगन्धिनी सरिद्वेणी मन्त्रिणी मन्त्ररूपिणी ॥ ५ ॥

तत्त्वत्रयी तत्त्वमयी सिद्धा त्रिपुरवासिनी ।

श्रीर्मतिश्च महादेवी कौलिनी परदेवता ॥ ६ ॥

कैवल्यरेखा वशिनी सर्वेशी सर्वमातृका ।

विष्णुष्वसा देवमाता सर्वसम्पत्प्रदायिनी ॥ ७ ॥

आधारा हितपत्नीका स्वाधिष्ठानसमाश्रया ।

आज्ञापद्मासनासीना विशुद्धस्थलसंस्थिता ॥ ८ ॥

अष्टत्रिंशत्कलामूर्तिः सुषुम्ना चारुमध्यमा ।

योगीश्वरी मुनिध्येया परब्रह्मस्वरूपिणी ॥ ९ ॥

चतुर्भुजा चन्द्रचूडा पुराण्यागमरूपिणी ।

ओङ्कारादिमहाविद्या महाप्रणवरूपिणी ॥ १० ॥

भूतेश्वरी भूतमयी पञ्चाशद्वर्णरूपिणी ।

षोढान्यासमहाभूषा कामाक्षी दशमातृका ॥ ११ ॥

आधारशक्तिररुणा लक्ष्मीः श्रीपुरभैरवी ।

त्रिकोणमध्यनिलया षट्कोणपुरवासिनी ॥ १२ ॥

नवकोणपुरावासा बिन्दुस्थलसमन्विता ।

अघोरामन्त्रितपदा भामिनी भवरूपिणी ॥ १३ ॥

एषां सङ्कर्षिणी धात्री चोमा कात्यायनी शिवा ।

सुलभा दुर्लभा शास्त्री महाशास्त्री शिखण्डिनी ॥ १४ ॥

नाम्नामष्टोत्तरशतं पठेन्न्याससमन्वितम् ।

सर्वसिद्धिमवाप्नोति साधकोऽभीष्टमाप्नुयात् ॥ १५ ॥

भूर्भुवस्सुवरोमिति दिग्विमोकः ।

इति श्रीरुद्रयामले उमामहेश्वरसंवादे श्री बाला अष्टोत्तरशतनाम स्तोत्रम् ।

sri bala ashtottara satanama stotram