Skip to main content
पडताळणी प्रलंबित

श्री नटेश स्तवः

ह्रीमत्या शिवया विराण्मयमजं हृत्पङ्कजस्थं सदा

ह्रीणाना शिवकीर्तने हितकरं हेलाहृदा मानिनाम् ।

होबेरादिसुगन्धवस्तुरुचिरं हेमाद्रिबाणासनं

ह्रीङ्कारादिकपादपीठममलं हृद्यं नटेशं भजे ॥ १ ॥

श्रीमज्ज्ञानसभान्तरे प्रविलसच्छ्रीपञ्चवर्णाकृतिं

श्रीवाणीविनुतापदाननिचयं श्रीवल्लभेनार्चितम् ।

श्रीविद्यामनुमोदिनं श्रितजनश्रीदायकं श्रीधरं

श्रीचक्रान्तरवासिनं शिवमहं श्रीमन्नटेशं भजे ॥ २ ॥

नव्याम्भोजमुखं नमज्जननिधिं नारायणेनार्चितं

नाकौकोनगरीनटीलसितकं नागादिनालङ्कृतम् ।

नानारूपकनर्तनादिचतुरं नालीकजान्वेषितं

नादात्मानमहं नगेन्द्रतनयानाथं नटेशं भजे ॥ ३ ॥

मध्यस्थं मधुवैरिमार्गितपदं मद्वंशनाथं प्रभुं

मारातीतमतीव मञ्जुवपुषं मन्दारगौरप्रभम् ।

मायातीतमशेषमङ्गलनिधिं मद्भावनाभावितं

मध्येव्योमसभागुहान्तमखिलाकाशं नटेशं भजे ॥ ४ ॥

शिष्टैः पूजितपादुकं शिवकरं शीतांशुरेखाधरं

शिल्पं भक्तजनावने शिथिलिताघौघं शिवायाः प्रियम् ।

शिक्षारक्षणमम्बुजासनशिरः संहारशीलप्रभुं

शीतापाङ्गविलोचनं शिवमहं श्रीमन्नटेशं भजे ॥ ५ ॥

वाणीवल्लभवन्द्यवैभवयुतं वन्दारुचिन्तामणिं

वाताशाधिपभूषणं परकृपावारान्निधिं योगिनाम् ।

वाञ्छापूर्तिकरं वलारिविनुतं वाहीकृताम्नायकं

वामङ्गात्तवराङ्गनं मम हृदावासं नटेशं भजे ॥ ६ ॥

यक्षाधीशसखं यमप्रमथनं यामिन्यधीशासनं

यज्ञध्वंसकरं यतीन्द्रविनुतं यज्ञक्रियादीश्वरम् ।

याज्यं याजकरूपिणं यमधनैर्यत्नोपलभ्याङ्घ्रिकं

वाजीभूतवृषं सदा हृदि ममायत्तं नटेशं भजे ॥ ७ ॥

मायाश्रीविलसच्चिदम्बरमहापञ्चाक्षरैरङ्कितान्

श्लोकान् सप्त पठन्ति येऽनुदिवसं चिन्तामणीनामकान् ।

तेषां भाग्यमनेकमायुरधिकान् विद्वद्वरान् सत्सुतान्

सर्वाभीष्टमसौ ददाति सहसा श्रीमत्सभाधीश्वरः ॥ ८ ॥

इति श्री नटेश स्तवः ।

sri natesha stava