Skip to main content
पडताळणी प्रलंबित

श्री त्रिपुरसुन्दरी पञ्चरत्न स्तोत्रम्

नीलालकां शशिमुखीं नवपल्लवोष्ठीं

चाम्पेयपुष्पसुषमोज्ज्वलदिव्यनासाम् ।

पद्मेक्षणां मुकुरसुन्दरगण्डभागां

त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ १ ॥

श्रीकुन्दकुड्मलशिखोज्ज्वलदन्तबृन्द-

-मन्दस्मितद्युतितिरोहितचारुवाणीम् ।

नानामणिस्थगितहारसुचारुकण्ठीं

त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ २ ॥

पीनस्तनीं घनभुजां विपुलाब्जहस्तां

भृङ्गावलीजितसुशोभितरोमराजिम् ।

मत्तेभकुम्भकुचभारसुनम्रमध्यां

त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ ३ ॥

रम्भोज्ज्वलोरुयुगलां मृगराजपत्रा-

-मिन्द्रादिदेवमकुटोज्ज्वलपादपद्माम् ।

हेमाम्बरां घनघृताञ्चितखड्गवल्लीं

त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ ४ ॥

मत्तेभवक्त्रजननीं मृडदेहयुक्तां

शैलाग्रमध्यनिलयां वरसुन्दराङ्गीम् ।

कोटीश्वराख्यहृदिसंस्थितपादपद्मां

त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ ५ ॥

बाले त्वत्पादयुगलं ध्यात्वा सम्प्रति निर्मितम् ।

नवीनं पञ्चरत्नं च धार्यतां चरणद्वये ॥ ६ ॥

इति श्री त्रिपुरसुन्दरी पञ्चरत्न स्तोत्रम् ।

tripura sundari pancharatna stotram