Skip to main content
पडताळणी प्रलंबित

श्री सुब्रह्मण्य षोडशनाम स्तोत्रम्

अस्य श्री सुब्रह्मण्य षोडशनामस्तोत्र महामन्त्रस्य अगस्त्यो भगवानृषिः अनुष्टुप्छन्दः सुब्रह्मण्यो देवता ममेष्ट सिद्ध्यर्थे जपे विनियोगः ।

ध्यानम् ।

षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं

शक्तिं वज्रमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।

पाशं कुक्कुटमङ्कुशं च वरदं हस्तैर्दधानं सदा

ध्यायेदीप्सितसिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥

प्रथमो ज्ञानशक्त्यात्मा द्वितीयः स्कन्द एव च ।

अग्निगर्भस्तृतीयस्तु बाहुलेयश्चतुर्थकः ॥ १ ॥

गाङ्गेयः पञ्चमः प्रोक्तः षष्ठः शरवणोद्भवः ।

सप्तमः कार्तिकेयश्च कुमारश्चाष्टमस्तथा ॥ २ ॥

नवमः षण्मुखः प्रोक्तो दशमस्तारकान्तकः ।

एकादशश्च सेनानीः गुहो द्वादश एव च ॥ ३ ॥

त्रयोदशो ब्रह्मचारी शिवतेजश्चतुर्दशः ।

क्रौञ्चदारी पञ्चदशः षोडशः शिखिवाहनः ॥ ४ ॥

षोडशैतानि नामानि यः पठेद्भक्तिसम्युतः ।

बृहस्पतिसमो वाचि ब्रह्मतेजोयुतो भवेत् ।

यद्यत्प्रार्थये मर्त्यस्तत्सर्वं लभते ध्रुवम् ॥ ५ ॥

इति श्री सुब्रह्मण्य षोडशनाम स्तोत्रम् ।

sri subrahmanya shodasa nama stotram in hindi