Skip to main content
पडताळणी प्रलंबित

श्री गणेश स्तोत्रम् (अग्नि कृतम्)

अग्निरुवाच ।

नमस्ते विघ्ननाशाय भक्तानां हितकारक ।

नमस्ते विघ्नकर्त्रे वै ह्यभक्तानां विनायक ॥ १ ॥

नमो मूषकवाहाय गजवक्त्राय धीमते ।

आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ॥ २ ॥

चतुर्भुजधरायैव चतुर्वर्गप्रदायिने ।

एकदन्ताय वै तुभ्यं हेरम्बाय नमो नमः ॥ ३ ॥

लम्बोदराय देवाय गजकर्णाय ढुण्ढये ।

योगशान्तिस्वरूपाय योगशान्तिप्रदायिने ॥ ४ ॥

योगिभ्यो योगदात्रे च योगिनां पतये नमः ।

चराचरमयायैव प्रणवाकृतिधारिणे ॥ ५ ॥

सिद्धिबुद्धिमयायैव सिद्धिबुद्धिप्रदायक ।

सिद्धिबुद्धिपते तुभ्यं नमो भक्तप्रियाय च ॥ ६ ॥

अनन्तानन देवेश प्रसीद करुणानिधे ।

दासोऽहं ते गणाध्यक्ष मां पालय विशेषतः ॥ ७ ॥

धन्योऽहं सर्वदेवेषु दृष्ट्वा पादं विनायक ।

कृतकृत्यो महायोगी ब्रह्मभूतो न संशयः ॥ ८ ॥

यदि प्रसन्नभावेन वरदोऽसि गजानन ।

तदा मां शापहीनं त्वं कुरु देवेन्द्रसत्तम ॥ ९ ॥

तव भक्तिं दृढां देहि यया मोहो विनश्यति ।

तव भक्तैः सहावासो ममास्तु गणनायक ॥ १० ॥

यदा सङ्कटसम्युक्तस्तदा स्मरणतस्तव ।

निस्सङ्कटोऽहमत्यन्तं भवामि त्वत्प्रसादतः ॥ ११ ॥

इति श्रीमन्मुद्गले महापुराणे द्वितीयखण्डे अग्नि कृत श्री गणेश स्तोत्रम् ॥

sri ganesha stotram agni krutam