Skip to main content
पडताळणी प्रलंबित

श्री ललिता पञ्चविंशतिनाम स्तोत्रम्

अगस्त्य उवाच ।

वाजिवक्त्र महाबुद्धे पञ्चविंशतिनामभिः ।

ललितापरमेशान्या देहि कर्णरसायनम् ॥ १ ॥

हयग्रीव उवाच ।

सिंहासनेशी ललिता महाराज्ञी पराङ्कुशा ।

चापिनी त्रिपुरा चैव महात्रिपुरसुन्दरी ॥ २ ॥

सुन्दरी चक्रनाथा च साम्राजी चक्रिणी तथा ।

चक्रेश्वरी महादेवी कामेशी परमेश्वरी ॥ ३ ॥

कामराजप्रिया कामकोटिका चक्रवर्तिनी ।

महाविद्या शिवानङ्गवल्लभा सर्वपाटला ॥ ४ ॥

कुलनाथाऽऽम्नायनाथा सर्वाम्नायनिवासिनी ।

शृङ्गारनायिका चेति पञ्चविंशतिनामभिः ॥ ५ ॥

स्तुवन्ति ये महाभागां ललितां परमेश्वरीम् ।

ते प्राप्नुवन्ति सौभाग्यमष्टौसिद्धीर्महद्यशः ॥ ६ ॥

इति श्रीब्रह्माण्डपुराणे ललितोपाख्याने अष्टादशोऽध्याये श्रीललिता पञ्चविंशतिनाम स्तोत्रम् ।

sri lalitha panchavimsati nama stotram