Skip to main content
पडताळणी प्रलंबित

ककारादि श्री काली अष्टोत्तरशतनाम स्तोत्रम्

भैरव उवाच ।

शतनाम प्रवक्ष्यामि कालिकाया वरानने ।

यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत् ॥ १ ॥

काली कपालिनी कान्ता कामदा कामसुन्दरी ।

कालरात्रिः कालिका च कालभैरवपूजिता ॥ २ ॥

कुरुकुल्ला कामिनी च कमनीयस्वभाविनी ।

कुलीना कुलकर्त्री च कुलवर्त्मप्रकाशिनी ॥ ३ ॥

कस्तूरीरसनीला च काम्या कामस्वरूपिणी ।

ककारवर्णनिलया कामधेनुः करालिका ॥ ४ ॥

कुलकान्ता करालास्या कामार्ता च कलावती ।

कृशोदरी च कामाख्या कौमारी कुलपालिनी ॥ ५ ॥

कुलजा कुलकन्या च कुलहा कुलपूजिता ।

कामेश्वरी कामकान्ता कुञ्जरेश्वरगामिनी ॥ ६ ॥

कामदात्री कामहर्त्री कृष्णा चैव कपर्दिनी ।

कुमुदा कृष्णदेहा च कालिन्दी कुलपूजिता ॥ ७ ॥

काश्यपी कृष्णमाता च कुलिशाङ्गी कला तथा ।

क्रीं रूपा कुलगम्या च कमला कृष्णपूजिता ॥ ८ ॥

कृशाङ्गी किन्नरी कर्त्री कलकण्ठी च कार्तिकी ।

कम्बुकण्ठी कौलिनी च कुमुदा कामजीविनी ॥ ९ ॥

कुलस्त्री कीर्तिका कृत्या कीर्तिश्च कुलपालिका ।

कामदेवकला कल्पलता कामाङ्गवर्धिनी ॥ १० ॥

कुन्ता च कुमुदप्रीता कदम्बकुसुमोत्सुका ।

कादम्बिनी कमलिनी कृष्णानन्दप्रदायिनी ॥ ११ ॥

कुमारीपूजनरता कुमारीगणशोभिता ।

कुमारीरञ्जनरता कुमारीव्रतधारिणी ॥ १२ ॥

कङ्काली कमनीया च कामशास्त्रविशारदा ।

कपालखट्वाङ्गधरा कालभैरवरूपिणी ॥ १३ ॥

कोटरी कोटराक्षी च काशीकैलासवासिनी ।

कात्यायनी कार्यकरी काव्यशास्त्रप्रमोदिनी ॥ १४ ॥

कामाकर्षणरूपा च कामपीठनिवासिनी ।

कङ्किनी काकिनी क्रीडा कुत्सिता कलहप्रिया ॥ १५ ॥

कुण्डगोलोद्भवप्राणा कौशिकी कीर्तिवर्धिनी ।

कुम्भस्तनी कटाक्षा च काव्या कोकनदप्रिया ॥ १६ ॥

कान्तारवासिनी कान्तिः कठिना कृष्णवल्लभा ।

इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ॥ १७ ॥

प्रपठेद्य इदं नित्यं कालीनामशताष्टकम् ।

त्रिषु लोकेषु देवेशि तस्याऽसाध्यं न विद्यते ॥ १८ ॥

प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि ।

यः पठेत्परया भक्त्या कालीनामशताष्टकम् ॥ १९ ॥

कालिका तस्य गेहे च संस्थानं कुरुते सदा ।

शून्यागारे श्मशाने वा प्रान्तरे जलमध्यतः ॥ २० ॥

वह्निमध्ये च सङ्ग्रामे तथा प्राणस्य संशये ।

शताष्टकं जपन्मन्त्री लभते क्षेममुत्तमम् ॥ २१ ॥

कालीं संस्थाप्य विधिवत् स्तुत्वा नामशताष्टकैः ।

साधकः सिद्धिमाप्नोति कालिकायाः प्रसादतः ॥ २२ ॥

इति श्री काली ककाराष्टोत्तरशतनाम स्तोत्रम् ।

sri kali ashtottara shatanama stotram