Skip to main content
पडताळणी प्रलंबित

श्री भ्रमराम्बाष्टकम्

चांचल्यारुणलॊचनांचितकृपां चंद्रार्कचूडामणिं

चारुस्मॆरमुखां चराचरजगत्संरक्षणीं तत्पदाम् ।

चंचच्चंपकनासिकाग्रविलसन्मुक्तामणीरंजितां

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ १ ॥

कस्तूरीतिलकांचितॆंदुविलसत्प्रॊद्भासिफालस्थलीं

कर्पूरद्रवमिश्रचूर्णखदिरामॊदॊल्लसद्वीटिकाम् ।

लॊलापांगतरंगितैरधिकृपासारैर्नतानंदिनीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ २ ॥

राजन्मत्तमरालमंदगमनां राजीवपत्रॆक्षणां

राजीवप्रभवादिदॆवमकुटै राजत्पदांभॊरुहाम् ।

राजीवायतमंदमंडितकुचां राजाधिराजॆश्वरीं [पत्र]

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ ३ ॥

षट्तारां गणदीपिकां शिवसतीं षड्वैरिवर्गापहां

षट्चक्रांतरसंस्थितां वरसुधां षड्यॊगिनीवॆष्टिताम् ।

षट्चक्रांचितपादुकांचितपदां षड्भावगां षॊडशीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ ४ ॥

श्रीनाथादृतपालितत्रिभुवनां श्रीचक्रसंचारिणीं

ज्ञानासक्तमनॊजयौवनलसद्गंधर्वकन्यादृताम् । [गाना]

दीनानामातिवॆलभाग्यजननीं दिव्यांबरालंकृतां

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ ५ ॥

लावण्याधिकभूषितांगलतिकां लाक्षालसद्रागिणीं

सॆवायातसमस्तदॆववनितां सीमंतभूषान्विताम् ।

भावॊल्लासवशीकृतप्रियतमां भंडासुरच्छॆदिनीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ ६ ॥

धन्यां सॊमविभावनीयचरितां धाराधरश्यामलां

मुन्याराधनमॊदिनीं सुमनसां मुक्तिप्रदानव्रताम् ।

कन्यापूजनसुप्रसन्नहृदयां कांचीलसन्मध्यमां

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ ७ ॥

कर्पूरागरुकुंकुमांकितकुचां कर्पूरवर्णस्थितां

कृष्टॊत्कृष्टसुकृष्टकर्मदहनां कामॆश्वरीं कामिनीम् ।

कामाक्षीं करुणारसार्द्रहृदयां कल्पांतरस्थायिनीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ ८ ॥

गायत्रीं गरुडध्वजां गगनगां गांधर्वगानप्रियां

गंभीरां गजगामिनीं गिरिसुतां गंधाक्षतालंकृताम् ।

गंगागौतमगर्गसन्नुतपदां गां गौतमीं गॊमतीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ ९ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगॊविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्री भ्रमरांबाष्टकं संपूर्णम् ।

bhramaramba ashtakam