Skip to main content
पडताळणी प्रलंबित

श्री महागणपति मङ्गलमालिका स्तोत्रम्

श्रीकण्ठप्रेमपुत्राय गौरीवामाङ्कवासिने ।

द्वात्रिंशद्रूपयुक्ताय श्रीगणेशाय मङ्गलम् ॥ १ ॥

आदिपूज्याय देवाय दन्तमोदकधारिणे ।

वल्लभाप्राणकान्ताय श्रीगणेशाय मङ्गलम् ॥ २ ॥

लम्बोदराय शान्ताय चन्द्रगर्वापहारिणे ।

गजाननाय प्रभवे श्रीगणेशाय मङ्गलम् ॥ ३ ॥

पञ्चहस्ताय वन्द्याय पाशाङ्कुशधराय च ।

श्रीमते गजकर्णाय श्रीगणेशाय मङ्गलम् ॥ ४ ॥

द्वैमातुराय बालाय हेरम्बाय महात्मने ।

विकटायाखुवाहाय श्रीगणेशाय मङ्गलम् ॥ ५ ॥

पृश्निशृङ्गायाजिताय क्षिप्राभीष्टार्थदायिने ।

सिद्धिबुद्धि प्रमोदाय श्रीगणेशाय मङ्गलम् ॥ ६ ॥

विलम्बियज्ञसूत्राय सर्वविघ्ननिवारिणे ।

दूर्वादलसुपूज्याय श्रीगणेशाय मङ्गलम् ॥ ७ ॥

महाकायाय भीमाय महासेनाग्रजन्मने ।

त्रिपुरारिवरोद्धात्रे श्रीगणेशाय मङ्गलम् ॥ ८ ॥

सिन्दूररम्यवर्णाय नागबद्धोदराय च ।

आमोदाय प्रमोदाय श्रीगणेशाय मङ्गलम् ॥ ९ ॥

विघ्नकर्त्रे दुर्मुखाय विघ्नहर्त्रे शिवात्मने ।

सुमुखायैकदन्ताय श्रीगणेशाय मङ्गलम् ॥ १० ॥

समस्तगणनाथाय विष्णवे धूमकेतवे ।

त्र्यक्षाय फालचन्द्राय श्रीगणेशाय मङ्गलम् ॥ ११ ॥

चतुर्थीशाय मान्याय सर्वविद्याप्रदायिने ।

वक्रतुण्डाय कुब्जाय श्रीगणेशाय मङ्गलम् ॥ १२ ॥

तुण्डिने कपिलाख्याय श्रेष्ठाय ऋणहारिणे ।

उद्दण्डोद्दण्डरूपाय श्रीगणेशाय मङ्गलम् ॥ १३ ॥

कष्टहर्त्रे द्विदेहाय भक्तेष्टजयदायिने ।

विनायकाय विभवे श्रीगणेशाय मङ्गलम् ॥ १४ ॥

सच्चिदानन्दरूपाय निर्गुणाय गुणात्मने ।

वटवे लोकगुरवे श्रीगणेशाय मङ्गलम् ॥ १५ ॥

श्रीचामुण्डासुपुत्राय प्रसन्नवदनाय च ।

श्रीराजराजसेव्याय श्रीगणेशाय मङ्गलम् ॥ १६ ॥

श्रीचामुण्डाकृपापात्र श्रीकृष्णेन्द्रविनिर्मिताम् ।

विभूतिमातृकारम्यां कल्याणैश्वर्यदायिनीम् ॥ १७ ॥

श्रीमहागणनाथस्य शूभां मङ्गलमालिकाम् ।

यः पठेत्सततं वाणीं लक्ष्मीं सिद्धिमवाप्नुयात् ॥ १८ ॥

इति श्रीकृष्णराजेन्द्रकृत श्रीमहागणपति मङ्गलमालिका स्तोत्रम् ।

sri maha ganapathi mangala malika stotram