Skip to main content
पडताळणी प्रलंबित

पञ्चस्तवि – ५

अजानन्तो यान्ति क्षयमवशमन्योन्यकलहै-

-रमी मायाग्रन्थौ तव परिलुठन्तः समयिनः ।

जगन्मातर्जन्मज्वरभयतमः कौमुदि वयं

नमस्ते कुर्वाणाः शरणमुपयामो भगवतीम् ॥ १ ॥

वचस्तर्कागम्यस्वरसपरमानन्दविभव-

-प्रबोधाकाराय द्युतितुलितनीलोत्पलरुचे ।

शिवाद्याराध्याय स्तनभरविनम्राय सततं

नमस्तस्मै कस्मैचन भवतु मुग्धाय महसे ॥ २ ॥

अनाद्यन्ताभेदप्रणयरसिकापि प्रणयिनी

शिवस्यासीर्यत्त्वं परिणयविधौ देवि गृहिणी ।

सवित्री भूतानामपि यदुदभूः शैलतनया

तदेतत्संसारप्रणयनमहानाटकमुखम् ॥ ३ ॥

ब्रुवन्त्येके तत्त्वं भगवति सदन्ये विदुरस-

-त्परे मातः प्राहुस्तव सदसदन्ये सुकवयः ।

परे नैतत्सर्वं समभिदधते देवि सुधिय-

-स्तदेतत्त्वन्मायाविलसितमशेषं ननु शिवे ॥ ४ ॥

लुठद्गुञ्जाहारस्तनभरनमन्मध्यलतिका-

-मुदञ्चद्धर्माम्भः कणगुणितवक्त्राम्बुजरुचम् ।

शिवं पार्थत्राणप्रवणमृगयाकारगुणितं

शिवामन्वग्यान्तीं शरणमहमन्वेमि शबरीम् ॥ ५ ॥

मिथः केशाकेशिप्रथननिधनास्तर्कघटनाः

बहुश्रद्धाभक्तिप्रणतिविषयाः शास्त्रविधयः ।

प्रसीद प्रत्यक्षीभव गिरिसुते देहि शरणं

निरालम्बं चेतः परिलुठति पारिप्लवमिदम् ॥ ६ ॥

शुनां वा वह्नेर्वा खगपरिषदो वा यदशनं

कदा केन क्वेति क्वचिदपि न कश्चित्कलयति ।

अमुष्मिन्विश्वासं विजहिहि ममाह्नाय वपुषि

प्रपद्येथाश्चेतः सकलजननीमेव शरणम् ॥ ७ ॥

तटित्कोटिज्योतिर्द्युतिदलितषड्ग्रन्थिगहनं

प्रविष्टं स्वाधारं पुनरपि सुधावृष्टिवपुषा ।

किमप्यष्टाविंशत्किरणसकलीभूतमनिशं

भजे धाम श्यामं कुचभरनतं बर्बरकचम् ॥ ८ ॥

चतुष्पत्रान्तः षड्दलपुटभगान्तस्त्रिवलय-

-स्फुरद्विद्युद्वह्निद्युमणिनियुताभद्युतिलते ।

षडश्रं भित्त्वादौ दशदलमथ द्वादशदलं

कलाश्रं च द्व्यश्रं गतवति नमस्ते गिरिसुते ॥ ९ ॥

कुलं केचित्प्राहुर्वपुरकुलमन्ये तव बुधाः

परे तत्सम्भेदं समभिदधते कौलमपरे ।

चतुर्णामप्येषामुपरि किमपि प्राहुरपरे

महामाये तत्त्वं तव कथममी निश्चिनुमहे ॥ १० ॥

षडध्वारण्यानीं प्रलयरविकोटिप्रतिरुचा

रुचा भस्मीकृत्य स्वपदकमलप्रह्वशिरसाम् ।

वितन्वानः शैवं किमपि वपुरिन्दीवररुचिः

कुचाभ्यामानम्रस्तव पुरुषकारो विजयते ॥ ११ ॥

प्रकाशानन्दाभ्यामविदितचरीं मध्यपदवीं

प्रविश्यैतद्द्वन्द्वं रविशशिसमाख्यं कबलयन् ।

प्रपद्योर्ध्वं नादं लयदहनभस्मीकृतकुलः

प्रसादात्ते जन्तुः शिवमकुलमम्ब प्रविशति ॥ १२ ॥

मनुष्यास्तिर्यञ्चो मरुत इति लोकत्रयमिदं

भवाम्भोधौ मग्नं त्रिगुणलहरीकोटिलुठितम् ।

कटाक्षश्चेद्यत्र क्वचन तव मातः करुणया

शरीरी सद्योऽयं व्रजति परमानन्दतनुताम् ॥ १३ ॥

प्रियङ्गुश्यामाङ्गीमरुणतरवासं किसलयां

समुन्मीलन्मुक्ताफलवहलनेपथ्यसुभगाम् ।

स्तनद्वन्द्वस्फारस्तबकनमितां कल्पलतिकां

सकृद्ध्यायन्तस्त्वां दधति शिवचिन्तामणिपदम् ॥ १४ ॥

षडाधारावर्तैरपरिमितमन्त्रोर्मिपटलैः

लसन्मुद्राफेनैर्बहुविधलसद्दैवतझषैः ।

क्रमस्रोतोभिस्त्वं वहसि परनादामृतनदी

भवानि प्रत्यग्रा शिवचिदमृताब्धिप्रणयिनी ॥ १५ ॥

महीपाथोवह्निश्वसनवियदात्मेन्दुरविभि-

-र्वपुर्भिग्रस्ताशैरपि तव कियानम्ब महिमा ।

अमून्यालोक्यन्ते भगवति न कुत्राप्यणुतमा-

-मवस्थां प्राप्तानि त्वयि तु परमव्योमवपुषि ॥ १६ ॥

कलामाज्ञां प्रज्ञां समयमनुभूतिं समरसं

गुरुं पारम्पर्यं विनयमुपदेशं शिवपदम् ।

प्रमाणं निर्वाणं प्रकृतिमभिभूतिं परगुहां

विधिं विद्यामाहुः सकलजननीमेव मुनयः ॥ १७ ॥

प्रलीने शब्दौघे तदनु विरते बिन्दुविभवे

ततस्तत्त्वे चाष्टध्वनिभिरनपायिन्यधिगते ।

श्रिते शाक्ते पर्वण्यनुकलितचिन्मात्र गहनां

स्वसंवित्तिं योगी रसयति शिवाख्यां भगवतीम् ॥ १८ ॥

परानन्दाकारां निरवधिशिवैश्वर्यवपुषं

निराकारां ज्ञानप्रकृतिमपरिच्छिन्नकरुणाम् ।

सवित्रीं लोकानां निरतिशयधामास्पदपदां

भवो वा मोक्षो वा भवतु भवतीमेव भजताम् ॥ १९ ॥

जगत्काये कृत्वा तदपि हृदये तच्च पुरुषे

पुमांसं बिन्दुस्थं तदपि वियदाख्ये च गहने ।

तदेतद्ज्ञानाख्ये तदपि परमानन्दगहने

महाव्योमाकारे त्वदनुभवशीलो विजयते ॥ २० ॥

विधे वेद्ये विद्ये विविधसमये वेदगुलिके

विचित्रे विश्वाद्ये विनयसुलभे वेदजननि ।

शिवज्ञे शूलस्थे शिवपदवदान्ये शिवनिधे

शिवे मातर्मह्यं त्वयि वितर भक्तिं निरुपमाम् ॥ २१ ॥

विधेर्मुण्डं हृत्वा यदकुरुत पात्रं करतले

हरिं शूलप्रोतं यदगमयदंसाभरणताम् ।

अलञ्चक्रे कण्ठं यदपि गरलेनाम्ब गिरिशः

शिवस्थायाः शक्तेस्तदिदमखिलं ते विलसितम् ॥ २२ ॥

विरिञ्च्याख्या मातः सृजसि हरिसञ्ज्ञा त्वमवसि

त्रिलोकीं रुद्राख्या हरसि विदधासीश्वरदशाम् ।

भवन्ती नादाख्या विहरसि च पाशौघदलनी

त्वमेवैकाऽनेका भवसि कृतिभेदैर्गिरिसुते ॥ २३ ॥

मुनीनां चेतोभिः प्रमृदितकषायैरपि मना-

-गशक्यं संस्प्रष्टुं चकितचकितैरम्ब सततम् ।

श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतरे

कथं ते विन्दन्ते पदकिसलये पार्वति पदम् ॥ २४ ॥

तटिद्वल्लीं नित्याममृतसरितं पाररहितां

मलोत्तीर्णां ज्योत्स्नां प्रकृतिमगुणग्रन्थिगहनाम् ।

गिरां दूरां विद्यामविनतकुचां विश्वजननी-

-मपर्यन्तां लक्ष्मीमभिदधति सन्तो भगवतीम् ॥ २५ ॥

शरीरं क्षित्यम्भः प्रभृतिरचितं केवलमचित्

सुखं दुःखं चायं कलयति पुमांश्चेतन इति ।

स्फुटं जानानोऽपि प्रभवति न देही रहयितुं

शरीराहङ्कारं तव समयबाह्यो गिरिसुते ॥ २६ ॥

पिता माता भ्राता सुहृदनुचरः सद्म गृहिणी

वपुः क्षेत्रं मित्रं धनमपि यदा मां विजहति ।

तदा मे भिन्दाना सपदि भयमोहान्धतमसं

महाज्योत्स्ने मातर्भव करुणया सन्निधिकरी ॥ २७ ॥

सुता दक्षस्यादौ किल सकलमातस्त्वमुदभूः

सदोषं तं हित्वा तदनु गिरिराजस्य दुहिता ।

अनाद्यन्ता शम्भोरपृथगपि शक्तिर्भगवती

विवाहाज्जायासीत्यहह चरितं वेत्ति तव कः ॥ २८ ॥

कणास्त्वद्दीप्तीनां रविशशिकृशानुप्रभृतयः

परं ब्रह्म क्षुद्रं तव नियतमानन्दकणिका ।

शिवादि क्षित्यन्तं त्रिवलयतनोः सर्वमुदरे

तवास्ते भक्तस्य स्फुरसि हृदि चित्रं भगवति ॥ २९ ॥

पुरः पश्चादन्तर्बहिरपरिमेयं परिमितं

परं स्थूलं सूक्ष्मं सकलमकुलं गुह्यमगुहम् ।

दवीयो नेदीयः सदसदिति विश्वं भगवती

सदा पश्यन्त्याख्यां वहसि भुवनक्षोभजननीम् ॥ ३० ॥

प्रविश्य त्वन्मार्गं सहजदयया देशिकदृशा

षडध्वध्वान्तौघच्छिदुरगणनातीतकरुणाम् ।

परामाज्ञाकारां सपदि शिवयन्तीं शिवतनुं

स्वमात्मानं धन्याश्चिरमुपलभन्ते भगवतीम् ॥ ३१ ॥

मयूखाः पूष्णीव ज्वलन इव तद्दीप्तिकणिकाः

पयोधौ कल्लोलाः प्रतिहतमहिम्नीव पृषतः ।

उदेत्योदेत्याम्ब त्वयि सह निजैः सात्त्विकगुणै-

-र्भजन्ते तत्त्वौघाः प्रशममनुकल्पं परवशाः ॥ ३२ ॥

विधुर्विष्णुर्ब्रह्मा प्रकृतिरणुरात्मा दिनकरः

स्वभावो जैनेन्द्रः सुगतमुनिराकाशमलिनः ।

शिवः शक्तिश्चेति श्रुतिविषयतां तामुपगतां

विकल्पैरेभिस्त्वामभिदधति सन्तो भगवतीम् ॥ ३३ ॥

शिवस्त्वं शक्तिस्त्वं त्वमसि समया त्वं समयिनी

त्वमात्मा त्वं दीक्षा त्वमयमणिमादिर्गुणगणः ।

अविद्या त्वं विद्या त्वमसि निखिलं त्वं किमपरं

पृथक्तत्त्वं त्वत्तो भगवति न वीक्षामह इमे ॥ ३४ ॥

त्वयासौ जानीते रचयति भवत्यैव सततं

त्वयैवेच्छत्यम्ब त्वमसि निखिला यस्य तनवः ।

जगत्साम्यं शम्भोर्वहसि परमव्योमवपुषः

तथाप्यर्धं भूत्वा विहरसि शिवस्येति किमिदम् ॥ ३५ ॥

असङ्ख्यैः प्राचीनैर्जननि जननैः कर्मविलया-

-त्सकृज्जन्मन्यन्ते गुरुवपुषमासाद्य गिरिशम् ।

अवाप्याज्ञां शैवीं शिवतनुमपि त्वां विदितवा-

-न्नयेयं त्वत्पूजास्तुतिविरचनेनैव दिवसान् ॥ ३६ ॥

यत्षट्पत्रं कमलमुदितं तस्य या कर्णिकाख्या

योनिस्तस्याः प्रथितमुदरे यत्तदोङ्कारपीठम् ।

तस्याप्यन्तः कुचभरनतां कुण्डलीति प्रसिद्धां

श्यामाकारां सकलजननीं सन्ततं भावयामि ॥ ३७ ॥

भुवि पयसि कृशानौ मारुते खे शशाङ्के

सवितरि यजमानेऽप्यष्टधा शक्तिरेका ।

वहसि कुचभराभ्यां यावनम्रापि विश्वं

सकलजननि सा त्वं पाहि मामित्यवाच्यम् ॥ ३८ ॥

इति श्रीकालिदास विरचित पञ्चस्तव्यां पञ्चमः सकलजननीस्तवः ।

panchastavi 5 sakalajanani stava