Skip to main content
पडताळणी प्रलंबित

श्री चन्द्रशेखराष्टकम्

चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम् ।

चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम् ॥ १ ॥

रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं

शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम् ।

क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ २ ॥

पञ्चपादपपुष्पगन्धपदाम्बुजद्वयशोभितं

फाललोचनजातपावक दग्धमन्मथविग्रहम् ।

भस्मदिग्धकलेबरं भवनाशनं भवमव्ययं

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ३ ॥

मत्तवारणमुख्यचर्मकृतोत्तरीय मनोहरं

पङ्कजासन पद्मलोचन पूजिताङ्घ्रि सरोरुहम् ।

देवसिन्धुतरङ्गशीकर सिक्तशुभ्रजटाधरं

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ४ ॥

यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणं

शैलराजसुतापरिष्कृत चारुवामकलेबरम् ।

क्ष्वेडनीलगलं परश्वथधारिणं मृगधारिणं

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ५ ॥

कुण्डलीकृतकुण्डलेश्वरकुण्डलं वृषवाहनं

नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।

अन्धकान्तकमाश्रितामरपादपं शमनान्तकं

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ६ ॥

भेषजं भवरोगिणामखिलापदामपहारिणं

दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम् ।

भुक्तिमुक्तिफलप्रदं सकलाघसङ्घनिबर्हणं

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ७ ॥

भक्तवत्सलमर्चितं निधिमक्षयं हरिदम्बरं

सर्वभूतपतिं परात्परमप्रमेयमनुत्तमम् ।

सोमवारुण भूहुताशन सोमपानिखिलाकृतिं

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ८ ॥

विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं

संहरन्तमपिप्रपञ्चमशेषलोकनिवासिनम् ।

क्रीडयन्तमहर्निशं गणनाथयूथसमन्वितं

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ९ ॥

मृत्युभीतमृकण्डुसूनुकृतस्तवं शिवसन्निधौ

यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत् ।

पूर्णमायुररोगतामखिलार्थसम्पदमादरं

चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥ १० ॥

[** अधिकश्लोकं –

संसारसर्पदुष्टानां जन्तूनामविवेकिनाम् ।

चन्द्रशेखरपादाब्जस्मरणं परमौषधम् ॥

**]

इति मार्कण्डेय कृत श्रीचन्द्रशेखराष्टकम् ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

chandrasekhara ashtakam in hindi